SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३७ __ मंत्र साधना और जैनधर्म मन्त्र साधना विधि स्नानं कृत्वा, धौतवस्त्राणि परिधाय, पूर्वोत्तराभिमुखः सन् ईर्यापथिकी प्रतिक्रम्य झोलिकामग्रे मुक्त्वा विधानमारभेत, तद्यथा भूमिशुद्धिः १, कराङ्गन्यासः २. सकलीकरणं ३, दिक्पालाहानं ४, हृदयशुद्धिः ५, मन्त्रस्नानं ६, कल्मषदहनं ७, पञ्चपरमेष्ठिस्थापनं ८, आहानं ६, स्थापनं १०, संनिधानं ११,संनिरोधः १२,अवगुण्ठनं १३, छोटिका १४, अमृतीकरणं १५. जाप: १६, क्षोभणं १७, क्षामणं १८, विसर्जनं १६, स्तुतिः २०।। एते विंशतयोऽधिकाराः क्रमेण विधीयन्ते१. भूमिशुद्धिः " ॐ भूरसि भूतधात्रि सर्वभूतहिते भूमिशुद्धिं कुरु कुरु स्वाहा।।" अनने मन्त्रेण सृष्ट्या परितो वार ३ वासक्षेपः, इति भूमिशुद्धिः।।१।। २. कराङ्गन्यासः हृत्-कण्ठ-तालु-भ्रूमध्ये ब्रह्मरन्ध्रे यथाक्रम- "हाँ ह्रीं हूँ हाँ ह्रः ।" वामकरे त्रिवारं चिन्तयेत्, इति करन्यासः ।।२।। ३. सकलीकरणम् "क्षिप ॐ स्वाहा, हास्वा ॐ पक्षि" अध ऊर्ध्व वारान् त्रीन् षड् वा।। 'क्षि' पादयोः । 'प' नाभौ । 'ॐ हृदये। ‘स्वा’ मुखे। 'हा' ललाटे न्यसेत् । एवं क्रमोत्क्रमः (मेण) पञ्चाङ्गरक्षा सकलीकरणम् ।।३।। ४. दिक्पालाहानम् "इन्द्राग्नि-दण्डधर-नैर्ऋत-पाशपाणि वायूत्तरे (च) शशिमौलिफणीन्द्रचन्द्राः । आगत्य यूयमिह सानुचराः सचिह्वाः पूजाविधौ मम सदैव पुरो भवन्तु।। इन्द्रमग्निं यमं चैव नैऋतं वरुणं तथा। वायुं कुबेरमीशानं नागान् ब्रह्माणमेव च ।। ॐ आदित्य-सोम-मङ्गल बुध-गुरु-शुक्राः शनैश्चरो राहुः । केतुप्रमुखाः खेटा जिनपतिपुरतोऽवतिष्ठन्तु।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy