________________
[२४] समीक्ष्याधिकरणोपभोग-परिभोगानर्थक्यानि ॥३२॥ योगदुःप्रणिधानानादर-स्मृत्यनुपस्थानानि ॥३३॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान संस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४॥ सचित्त-संबंध-सम्मिश्राभिषव-दुःपक्काहाराः॥३५॥ सचित्त-निक्षेपापिधान-परव्यपदेश-मात्सर्य-कालातिक्रमाः ॥३६॥जीवित-मरणा-शंसा-मित्रानुरागसुखानुबन्धनिदानानि ॥३७॥अनुग्रहार्थ स्व-स्यातिसर्गोदानम्॥३८॥विधि-द्रव्यदातृ-पात्र-विशेषात्तद्विशेषः ॥ ३९॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः ॥७॥ मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतवः ॥१॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्धः ॥२॥प्रकृति-स्थित्यनुभव-प्रदेशास्तद्विधयः॥३॥ आद्योज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तरायः॥४॥पञ्चनव-द्वयष्टाविंशति-चतुर्द्विचत्वारिंशद्वि-पञ्च भेदा यथाक्रमम् ॥५॥मति-श्रुतावधि-मनःपर्ययकेवलानाम्॥६॥चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रा-निद्रा-प्रचला-प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसवेद्ये ॥८॥दर्शनचारित्र-मोहनीयाकषाय-कषायवेदनीयाख्यास्त्रिद्वि-नव-षोडशभेदाःसम्यक्त्वमिथ्यात्व-तदुभयान्यकषाय-कषायौ हास्य-रत्यरति-शोकभय-जुगुप्सा-स्त्री-पुनपुंसक-वेदा अनन्तानु-बन्ध्यप्रत्याख्यान प्रत्याख्यान-संज्वलन-विकल्पाश्चैकशः क्रोध-मान-मायालोभाः॥९॥ नारकतैर्यग्योन-मानुष-दैवानि ॥१०॥ गतिजाति-शरीराङ्गो-पाङ्ग-निर्माण-बन्धन-संघात-संस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org