________________
The Texts (1) श्रीमुनिसुव्रतस्वामिस्तवनम्
श्रीज्ञानसागरसूरिकृतम् श्रीकैवल्यावगमविदिताशेषवस्तुस्वभाव
भावद्वेषिप्रमथनपटुं दोषनिर्मुक्तवाचम् । भक्तिप्रवत्रिभुवननतं सुव्रत श्रीजिनाहं
देवं स्तोष्ये भृगुपुरमहीमौलिमौले भवन्तम् ।। 1 ।। प्रज्ञोत्कर्षाधिगतसकलद्वादशाङ्गार्थसाथै
रीशांचक्रे न कविवृषभैयाँ स्तुतिं ते विधातुम् । मादृक्षः किं निबिडजडिमा तद्विधौ स्यात्समर्थो
बालः किं वा कलयति निजाशक्तिशक्त्योर्विभागम् ।। 2 ।। आद्ये भवे त्वमभवः शिवकेतुभूमी
शः सुप्रतिष्ठनगरेः सुमना द्वितीये । सौधर्मगोऽवरपुरेऽथ कुबेरदत्त
स्तस्मात्तृतीयदिवि दैवतपुङ्गवोऽभूः ।। 3 ।। श्रीवज्रकुण्डलनृपो नगरेऽजनिष्ट
पौराणनाम्न्यथ च पञ्चमकल्पवासी । श्रीवर्मभूपतिरुदग्रबलस्तु चम्पा
__ स्वामी विमानमपराजितमागमस्त्वम् ।। 4 ।। च्युत्वा ततो हरिकुले विपुलेऽवतीर्णः
श्रीमत्सुमित्रनृपवंशविशेषकस्त्वम् । पद्मात्मजः प्रवरराजगृहे गरीयः
पुण्यास्पदं जनिमहं तव तेनुरिन्द्राः ।। 5 ।। आयुस्त्रिंशस्त्रिभुवनविभो वत्सराणां सहस्रां
देहोच्चत्त्वं तव जिनपते विंशतिः कार्मुकाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org