SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णयः उपसंहारः विदेहवसुधापतौ नृपतिचक्रचूडामणौ, विदेहगुणलक्षिते सकलनीतिपारङ्गते । विराजति रमेश्वरे विविधधर्मरत्नाकरे, मया द्विजरजेविदा तिथिषु निर्णयो निर्मितः ॥ १॥ पूर्वोत्तराम्नायक्रियानुरक्तः परात्मबोधेऽनुपलं प्रसक्तः । सिद्धयष्टकावाप्तिमहत्त्वनुत्यः सदाशिवः किन्नु रमेश्वरोऽभूत् ॥ २॥ सतीवियोगे गिरिजाविवोढा शश्वच्च ताभ्यां युगपद्विहर्तुम् । जातः स च श्रीलरमेश्वरस्तत् प्रासोष्ट पुत्रौ महिषी कनिष्ठा ॥३॥ पुरा सुरसरिद्गति-प्रबलवेगसोढा शिवः, कलावपि तदुत्पथात् पुनरपीह रोर्बु क्षमः । स एव च रमेश्वरो जयति धर्मरत्नाकरो, भगीरथकथा वृथा जगति जायते सर्वथा ॥४॥ उमेश्वरः श्रीलरमेश्वरो वा, योगीश्वरो वा जगदीश्वरो वा। सनातनं धर्ममनामयं वै, कतु पुमान् प्रादुरभूदपूर्वः ।। ५।। श्रीमद्रमेश्वरयशोऽक्षविधुं निरीक्ष्य, धाता विधुं निजकृतं मलिनं परीक्ष्य | पूर्ण छिनत्ति च शनैः पुनरातनोति, साम्यं न जायत इतो यतते भृशं सः ।।६।। प्रतिष्ठितस्यापि मम प्रयासो भूयान्मुदे सज्जनपण्डितानाम् । मुखं पिधातुंबत दुर्जनानां नेष्टे महेशो न च वा रमेशः ॥ प्रतनिर्णयः शुद्धिनिर्णयः तीर्थनिर्णयश्च यथावकाशं प्रकाशमेष्यन्ति ॥ इति श्रीरजेऽपरनामक-राजनाथशर्मकृते निर्णयसंग्रहे तिथिनिर्णयः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy