________________
तिथि निर्णयः
३२
यावत् कर्तव्यम् | यदि पूर्वदिने कुतुपे न लभ्यते तिथी रोहिणे च लभ्यते । उत्तरदिने कुतुपे रौहिणेपि लभ्यते : तत्रापि पूर्वदिने रौहिणे कार्यम् । कपालाधिकरणन्यायात् । रौहिणं न तु लङ्घयेदिति विशिष्याभिधानाच्च । उभयदिने कुतुपरौहिणयोस्तिथिलाभेप्येषैव व्यवस्था | उभयदिने कुतुपरौहिणयोस्तिथ्यलाभे कुतुपात् पूर्वस्मिन् सप्तममुहू मध्याह्नान्तर्गते कार्यम् । तत्रापि तिथ्यलाभे पार्वणोक्तगौणकालेऽपि कार्यम् । अत एव सङ्गवादावपीति रुद्रधरः | पैतृकं पार्वणश्राद्धम्, तच्च प्रातः सायाहमुहूर्तातिरिक्तेषु नवसु मुहूर्तेषु कर्तव्यम् । केचित्तु — “सूर्ये चैवाचिरोदिते”ति निषेधविषयस्य मुहूर्तद्वयस्य परित्यागेन मुहूर्तदशकं श्राद्धकालमाहुः । पठन्ति च - ऊर्ध्वं मुहूर्तात् कुतुपाद्यन्मुहूर्त चतु ष्टयम् | मुहूर्तपञ्चकं च कुतुपात् पूर्वं कुतुपेन सह ॥ मुहूर्तदशकं पार्वणश्राद्धकालः । उभयदिने कर्मयोग्यकालला भे पूर्वदिने कार्य पूर्वोक्तयुक्तेः । अत एवाहुः स्मृतिसारेः हरिनाथपादाः -
दर्श च पौर्णमासं च पितुः सांवत्सरं दिनम् । पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥ भूतविद्धाप्यमावास्या प्रतिपन्मिश्रितापि वा । पित्र्ये कर्मणि विद्वद्भिर्ब्राह्या पुण्या सदा तिथिः ॥ मध्याह्रव्यापिनी या तु तिथिः पूर्वा परापि वा । तदहः कर्मकुर्वीत ह्रासवृद्धी न कारणम् ॥ अथ दीपावल्यामुल्काभ्रमणविचारः
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयो: । उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ॥ इत्यत्र प्रदोषश्रवणात् प्रदोषव्यापिन्यमावास्या ग्राह्या । उभयदिने प्रदोष व्याप्तौ परैव । पितृविसर्जनात्मककर्मणः पार्वणोत्तरत्वौचित्यात् । “दण्डैकरजनीयोगे” इत्याद्युक्तज्योतिर्वचनात्,
भूताहे ये प्रकुर्वन्ति उल्काग्रहमचेतनाः । निराशाः पितरो यान्ति शापं दत्त्वातिदारुणम् ॥ इति निषेधाच्च । उत्तरत्र प्रदोषाव्याप्तौ पूर्वत्र । कर्मकालव्यापनात् । " नन्दायां दर्शनं रक्षेत्यादिना प्रतिपदि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International