________________
य
तिथिनिर्णयः तु पूर्वेधुनिशीथमात्रव्याप्तिः परदिने प्रदोषमात्रव्याप्तिः । तदा पूर्वत्र व्रतम् । प्रधानकालानुरोधात् । तथाहि
ईशामसंहिताया-पूर्वेद्यरपरेर्वा महानिशि चतुर्दशी । व्याप्ता सा दृश्यते यस्यां तस्यां कुर्याद् व्रतं नरः ।। भविष्ये-अर्धरात्रात् पुरस्तात्तु जयायोगो भवेद्यदि । पूर्वविद्धैव कर्त्तव्या शिवरात्रिः · शिवप्रियैः ॥
विष्णुधर्मोत्तरीये-जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते । कृत्वोपवासं तिथ्यन्ते तदा कुर्याच्च पारणम् ।। तिथ्यन्ते पारणं जयन्तीमात्रपरम् । अत्र चतुर्दश्यामपि पारणप्राशस्त्यात् ।
स्कान्दे-ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै । पूजितानि भवन्तीह भूतायां पारणे कृते ।। इति । गौतमः-दिनमानप्रमाणेन या तु रात्रौ चतुर्दशी। शिवरात्रिस्तु सा ज्ञेया चतुर्दश्यान्तु पारणम ॥
ने न निशीथव्याप्तिः परदिनेपि प्रदोषमात्रव्याप्तिः तदा परा पाया । “प्रदोषव्यापिनी"त्यादि प्रागुक्तस्मृतेत्रिसन्ध्यव्यापित्वाच्च । एतद्विषय एव-लिंगपुराणम् -- 'शिवरात्रिप्रते भूतां कामविद्धां विवर्जयेत् । एकेनैवोपवासेन ब्रह्महत्यां व्यपोहति ॥' अत्रामावास्यामेव पारणम् । तथाहि-तिथितत्त्वता स्मृतिःशिवा घोरा तथा प्रेता सावित्री च चतुर्दशी । कुहूयुक्तैव कर्त्तव्या कुह्नामेव हि पारणम् ।
(१५) अथाऽमावस्या द्वैधः । सा च प्रतिपद्यता प्राह्या युग्मनिगमात् , “एकादश्यष्टमी"त्यादि पैठीनसिस्मृतेश्च । लक्ष्मीपूजायां कार्तिकामावास्या प्रदोषव्यापिनी ग्राह्या । यदाह-भविष्योत्तरे--प्रदोषे पूजयेद् देवीं पद्महस्तां हरिप्रियाम् ॥ इति ।
तथा-प्रदाषसमये लक्ष्मी पूजायत्वा यथाविधि | ब्राह्मणान् भोजयित्वा च भोजयेच्च बुभुक्षितान् ।।
उभयदिने प्रदोषव्याप्तौ परा ग्राह्या, उत्तरदिने प्रदोषाव्याप्तौ पूर्व दिने प्रदोषव्याप्तौ पूर्वा ग्राह्या तथाहि, राजमार्तण्डे-दण्डैकं रजनी प्रदोषसमये दर्शो यदा संस्पृशेत् । कर्त्तव्या सुखरात्रिकात्र विधिना दर्शाद्यभावे तदा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org