SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तिथिनिर्णयः चैत्रकृष्णायामाह, स्कन्दपुराणे वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ।। शनिवारेण संयक्ता सा महावारुणी स्मृता | गङ्गायो यदि लभ्येत कोटिसूर्यग्रहैः समा । शुभयोगसमायक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ अत्राऽखण्डयोगे पूर्वाह्न एव स्नानादिकार्यम् । तत्रैव तेषां विधानात् । खण्डयोगे तु यस्मिन् काले योगो लभ्यते तत्रैव, ग्रहणवत् । अत्राहुः महाफलश्रुते रात्रावपि योगसन्निपाते (गङ्गायां) स्नानादिकार्यमित्युमापतयः । सारसंग्रहे पठन्ति च दिवा रात्रौ च सन्ध्यायां गङ्गायान्तु विशेषतः । स्नात्वाऽश्वमेधजं पुण्यं गृहेप्युद्धततज्जलैः ।। भविष्येऽपि-सर्व एव शुभः कालः सर्वो देशस्तथा शुभः । सर्वो जनस्तथा पात्रं स्नानादी जाह्नवीजले ॥ वारपदोपादानात् वारपदस्य सूर्योदयास्तावधिकालपरत्वौत्सगिकत या रात्री स्नानादिकं नाचरणीयम् । राहदर्शनादिप्रसतेतरकर्मणि सर्वत्र पर्यंदस्तत्वात्। अत एव सोमारात्रौ अमावास्यालामे न एव सोमारात्रौ अमावास्यालाभे न सोमवारव्रतमिति | "दिवैव योगः शस्तोयं न तु रात्रौ कदाचने"ति वचनं न्यायमूलकमेवेति बोध्यम् । (१४) अथ चतुर्दशी-द्वैधः । 'सा शुक्ला परा ग्राह्या चतुर्दश्याथ पूर्णिमा' इति युग्मवचनात् । एकादश्यष्टमीत्यादि तृतीयाप्रकरणलिखितबृहस्पतिविष्णुधर्मोत्तरवचनाच्च । 'उदये त्रिमुहूर्तापि ग्राह्यानन्तव्रते तिथिः' इति माधवीयाच्च । भविष्ये-तथा भाद्रपदस्यान्ते चतुर्दश्यां द्विजोत्तम । पौर्णमास्याः समायोगे व्रते चानन्तकं चरेत् ॥ स्कन्दे-मुहूर्तमपि चेद् भाद्रे पूणिमायां चतुर्दशी। संपूर्णा तां विदुस्तस्यां पूजयेद्विष्णुमव्ययम् ।। इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001772
Book TitleTithinirnay
Original Sutra AuthorN/A
AuthorRamchandra Jha
PublisherChaukhamba Vidyabhavan
Publication Year1993
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari, Tithi, & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy