________________
तिथिनिर्णयः तथा-स्तोकापि सा तिथिः पुण्या यस्यामभ्यदितो रविः ।। इति । कालिकापुराणे-सम्यक्कल्पोदिता पूजा यदि कर्तुन्न शक्यते । उपचारांश्च संक्षिप्य पश्चैतान वितरेत्तदा ॥ गन्धं पुष्पश्च धूपं च दीपं नैवेद्यमेव च | अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः॥
संक्षेपपूजा कथिता यथाशास्त्रमथापि वा ।।। एवञ्च मुहूर्तमात्राप्युदयगामिनी दशमी देवीविसर्जनापराजितापूजादौ ग्राह्या । नृपाणान्तु दशम्यामपराहे सीमालंघनस्यावश्यकर्तव्यतया तस्य चापराजितापूजादेवीविसर्जनोत्तरकालिकत्वनियमेन सीमालंधनात्मकप्रधानकार्यानुरोधात्तदन्तापकर्षन्यायेन नवमीयुतायामपि दशम्यां पूर्वाद देवीविसर्जनमपराजितापूजनञ्च कार्यम् । तथाहि शिवरहस्यवचनम्
कृत्यमहार्णवे-आश्विने शुक्लपक्षस्य दशम्यां पूजयेत्ततः । एकादश्यां न कुर्वीत पूजनश्चापराजिताम् ।। तथा-सीमाला प्रकुर्वीत दशम्यां सर्वदा नृपः । अपराह्न प्रकुर्वीत ऐशानी दिशमाश्रितः॥ शाद्वले च विविक्ते च कृत्वा मूर्तिम्महीमयीम् । द्वे मूर्ती अपि कर्तव्ये तथा खड्गधनुद्धरे ।
. चत्वारः पर्वताः कार्याश्चतुर्दिक्षु समन्ततः॥ यदि पूर्वदिने पूर्वाह दशमी न लभ्यते तदोत्तरदिने पूर्वाह्न अपराजितापूजा-देवीविसर्जने कृत्वाऽपराह्न सति सम्भवे दशम्यां तदलाभे चैकादश्यामपि सीमालङ्घनं कार्यम् , दशमीपदस्यागत्या दशमीयुक्तैकादश्यामपि लक्षणाया निराबाधात् ।
(११) अथैकादशी-वैधः सा चोपवासादौ परा प्रामा । एकादश्यष्टमीत्यादिस्मृतेः । रुद्रेण द्वादशीयुक्तेति युग्मनिगमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org