________________
एव क्षयः कार्य इति वृद्धसामाचार्याम् । यदुक्तं- क्षये पूर्वातिथि: कार्या, वृद्धौ कार्या तथोत्तरा । श्री वीरज्ञाननिर्वाणं कार्य लोकानुगैरिह ॥१॥ जम्हा पुनिमाखए तेरसीखओ हवइ तम्हा पुनिमावुढिएवि तेरसी वुडिजा इइ वयणं पुव्वसूरीहिं भणियं इति वचनात् । तथा च जइ पव्वतिहिखओ तया कायव्वो पुव्वतिहीए, एवं आगमवयणं कहियं तेलुक्कनाहेहिं ॥१॥चउमासीअ वरिसे वुड्डी भवेजा पव्वतिहीए ठावियाणं पुव्वदिणे मिल्लिया दोवि तत्थदिणे ॥२॥ तथा अट्ठमी चउद्दसी पुनिमा उद्दिट्ठा य पव्वतिही । एसु खओ न हविजइ इह वयणाओ इति वचनात्, आयरियावि एवमेव भन्नंति, तंजहा-आसाढे कत्तियफग्गुणमासे खओ पुनिमाए होइ, तासं खओ तेरसिए भणिओ जिणवरिंदेहिं ॥१॥ तथा द्वितीयापंचम्यष्टम्येकादशीचतुर्दशीषु यदि क्षयो भवेत्तदा तत्पूवार्यास्तिथेः कार्यः, यदुक्तं-बीया पंचमी अट्ठमी एकारसी च चउदसी तासं खओ पुव्वतिहीओ, अमावासाएवि तेरसि, अमावास्यापूर्णमास्योः क्षये क्षयस्तु त्रयोदश्या एव । एवमेव भाद्रशुक्लपंचमीक्षये तृतीयायाः क्षयो बोध्यः । कस्मादेवं यत् भाद्रशुक्लपंचमीक्षये तृतीयायाः क्षयः क्रियते इति पृच्छसि तदुत्तरमेवं-चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् चिरंतनाचारादृतत्वात्, अत एवाधुनाप्येवमेवास्माभिः क्रियते । यदमावास्यायाः क्षये प्रतिपदः क्षयः करोति तन्मतमपास्तं, यदुक्तं अमावासाएवि तेरसि न तु पडवस्स इति, सत्यमेव, पुनः शिष्यो गुरुं पृच्छति अथ पूर्णिमावृद्धौ युष्माभिः द्वे त्रयोदश्यौ कथं क्रियते ? तस्योत्तरं द्वे चतुर्दश्यो केनापि सूरिणा न कृते, नापि कारिते, अत एव पूर्णिमावृद्धौ द्वे त्रयोदश्यौ अस्माभिः क्रियेते, कथं तृतीयस्थाने स्थिता त्रयोदशी वर्द्धिता पूर्वसूरिणेति ? जैनटिप्पनके तावत्पर्वतिथीनां वृद्धिरेव न भवति ततः परमार्थतस्त्रयोदश्येव वर्द्धिता, तत्सत्यं, परं तत्कारणं कथ्यतां, कारणं तु चतुर्दश्याः वृद्धिः कदापि न भवति तदेकं कारणं पूर्वोक्तं तहा पुनिमावुड्ढीए तेरसीवुड्डी जायइ इच्चाइ, एवमपि तव न रोचते तदा वर्द्धितपूर्णमास्याः घटिकायाः चतुर्दश्यां निक्षेपः कार्यः, सापि द्विगुणिता जाता, साप्येकैव क्रियते, न तु द्वे, अत: आद्या चतुर्दशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org