SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ४९७ ।। Jain Education International ११ - सप्ततिशत- यंत्रस्तुतिः । आनंदोल्लासनमात्रिदशपतिशिरः प्रसूनपूज्यपदम् । जिनसप्ततिशतमानम्य वच्मि तस्यैव संस्तवनम् ॥१॥ जंबूद्वीपे भरतैरावतयोरेकमेकमभिनौमि तद्वात्रिंशद्विजयेयैकैकं जिनवरं वंदे ॥ २ ॥ घातकखंडद्वीपे द्विगुणे भरतद्विके जिनद्वितयम् । एरावते च जिनयुगलममलमभिनौमि सद्भक्त्या ||३|| वंदे महाविदेहे, जिनांश्चतुःषष्टिविजयसंभविनः । केवलकिरणोद्योतितजगत्त्रयानस्तसंतमसः ||४|| श्रीपुष्करार्द्धनाम्नि च तावत एव प्रमाणतः प्रयतः । परमेष्टिनः समभिष्टौमि, नष्टकर्माष्टविद्विष्टान् ||५| वरकनकशंखविद्रुम-मरकतघनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां सर्वाऽमरपूजितं वन्दे || ६ || दवदहनभूभृदंभस्तस्करविद्युत्फणीभविस्फोटम् । हरि मारि-बंधनभयं, तत्कालं संस्मृतं हरति ॥७॥ यो यंत्रस्थं ध्यायति, सप्ततिशतमर्हतां पुलकितांगः । न भवंति रुजो नश्यंति, चारयस्तस्य सर्वेऽपि ||८|| द्वौ सप्तसप्ततिरशीति-रथ संयुता चतुर्भिश्च । एकाशीतिरशीतिः षट् चक्रत्रयोऽष्टौ तथैकः स्यात् ॥९॥ त्र्यधिकाशीतिः सप्तति-रष्टयुताशीतिरेककोना च । द्वाशीतिश्वत्वारः, पंच च यंत्रे विधिर्ज्ञेयः ॥१०॥ क्षितिपतिमतिसंक्रुद्धं, जपितं बीजाक्षरैः प्रसादयति । हरहुंहः सरसुंसः ॐ क्लीं ह्रीँ हूँ फुट् स्वाहा ||११|| घनसारचंदनद्रव-लिखितममत्रे पयः प्रपीतं च । विस्फोटनाशनं खलु कुर्याद्वारे तथा न्यस्तम् ||१२|| पापमलं दहति भृशं, हृत्पंकजकोटरे तथा ध्यातम् । त्रिभुवनवशमानयतियो यन्त्रमेतत्प्रयुंजयति ||१३|| For Private & Personal Use Only ॥ स्तुति स्तवमंत्राः ॥ ।। ४९७ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy