SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। ४९१ ।। Jain Education Internation विंशत्या तीर्थंकरै - रजिताद्यैर्यत्र शिवपदं प्राप्तम् । देवकृतस्तूपगण: स, जयति समेतगिरिराजः ||७|| मथुरापुरीप्रतिष्ठः, सुपार्श्वजिनकालसंभवो जयति । अद्यापि सुराभ्यर्च्यः, श्रीदेवविनिर्मितः स्तूपः ||८|| ब्रह्मेन्द्रदशानन रामचन्द्रमुख्यैः प्रपूजिते जयतः । अंगदिगानगरस्थे, जिनबिम्बे दिव्यरत्नमये ||९|| यस्तिष्ठति वरवेश्मनि सार्द्धाभिर्द्रविणकोटिभिस्तिसृभिः । निर्मापितोभ्मराज्ञा, गोपगिरौ जयति जिनवीरः ||१०|| नेमेः कल्याणत्रिक-मभवन् मिष्कमणमुख्यममरकृतम् । यस्मिन्नसौ महात्मा, रैवतकमहागिरिर्जयति ॥ ११ ॥ मोढेरपुरनिवासी, ब्रह्मोपपदेन शान्तिना रचितः । स्वयमेव सप्तहस्तः, श्रीवीरजिनेश्वरो जयति ||१२|| जयति सदतिशययुक्तः, स्तंभनकनिकेतनो जिनः पार्श्वः । पायात् प्रतिकृतिपूज्यो, मुण्डस्थलसंस्थितो वीरः ॥ १३॥ नमिविनमिकुलान्वयिभिर्विद्याधरनाथकालकाचार्यैः । कासहूदाख्ये नगरे, प्रतिष्ठितो जयति जिनवृषभः ||१४|| नागेन्द्रचन्द्रनिर्वृति-विद्याधरमुख्यसकलसंघेन अर्बुदकृतप्रतिष्ठो, युगादिजिनपुंगवो जयति ॥ १५ ॥ विमलनरेन्द्रकृतस्तुति-र्वृषभोऽर्बुदनगविशेषको जयति । जयतीह जगति शान्तिः, श्रीगोकुलवासकृतपूजः || १६ || पांडवमात्रा कुन्त्या, संजाते श्रीयुधिष्ठिरे पुत्रे । श्रीचन्द्रप्रभनाथः, प्रतिष्ठितो जयति नाशिये ||१७|| कलिकुण्डकुर्कुटेश्वर-चम्पाश्रावस्तिगजपुरायोध्याः । वैभारगिरिरपापा, जयन्ति पुण्यानि तीर्थानि ॥१८॥ ॐकारनगरवायडजालंधरचित्रकूटसत्यपुरे । ब्रह्माणपल्लिकादिषु, ऋषभादिजिना जयन्त्वनाः ||१९|| For Private & Personal Use Only ॥ स्तुति स्तव मंत्राः ॥१ ॥ ४९१ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy