________________
॥ कल्याणकलिका. खं० २ ॥
। ॥ कलशप्रतिष्ठा ।
नो० नमोऽर्हत् स्तुति -
अहस्तनोतु स श्रेयः- श्रियं यद्धयानतो नरैः । अप्यैन्द्री सकलाऽत्रैहि रंहसा सहसौच्यत ॥१॥ लोगस्स० सब्बलोए. अरिहंत० बंदण० अन्नत्थ० १ नव० स्तृति -
ओमितिमन्ता यच्छासनस्य नन्ता सदा यदंहिश्च । आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खरवरदी० सुअस्स०-वंदण व० अन्नत्थ० १ नव० स्तुति - नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्यानन्दाऽऽस्या जैनगीर्जीयात् ॥३॥
सिद्धाणं बुद्धाणं० श्रीशान्तिनाथ आराधनार्थं करेमि काउसग्गं वंदणवत्ति० अन्नत्थ. १ लोगस्स, सागरवर गंभीरा पर्यंन्त० नमोऽर्हत्. स्तुति -
श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः, सुशान्तिदाः संतुषन्ति जने ॥४॥ श्रुतदेवतायै करेमि काउसग्गं, अन्नत्थ० १ नव, नमो० स्तुति - वद वदति न वाग्वादिनि !, भगवति कः श्रुतसरस्वति गमेच्छुः । रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ क्षेत्रदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥ शासनदेवतायै करेमि का. अन्नत्थ० १ नव० नमो० स्तुति - उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ॥७॥
॥ ३७६
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org