________________
प्रतिष्ठा
॥ कल्याणकलिका. खं० २॥
विधिबीज
कानि ।।
क
॥ प्रतिष्ठाविधिबीजकानि ॥
। श्रीचन्द्रप्रतिष्ठापद्धतिबीजककाव्यानि । भूतानां बलिदानमग्रिमजिनस्नानं तदने स्वयं, चैत्यानामथ वंदनं स्तुतिगणः स्तोत्रं करे मुद्रिका । स्वस्य स्नात्रकृतां च शुद्धसकलीसम्यक् शुचिप्रक्रिया, धूपाम्भःसहितोऽभिमंत्रितबलिः पश्चाच्च पुष्पांजलिः ॥१॥ मुद्रा मध्यांगुलीभ्यामतिकुपितदृशा वामहस्ताम्भसोच्चै-बिम्बस्याच्छोटनं सत्सतिलककुसुमं मुद्गरञ्चाक्षपात्रं । मुद्राभिर्वज्रताादिभिरथकवचं जैनबिंबस्य सम्यग्-दिग्बन्धः सप्तधान्यं जिनवपुरुपरि क्षिप्यते तत्क्षणं च ॥२॥ कुम्भानामभिमंत्रणं जिनपतेः सन्मुद्रया मंत्र्यते, नीरं गन्धमहौषधी मलयजं पुष्पाणि धूपस्ततः । अंगुल्यामथ पंचरत्नरचना स्नानं ततः कांचनं, पुष्पारोपणधूपदानमसकृत् स्नानेषु तेष्वंतरा ॥३॥ रत्नस्नानकषायमञ्जनविधिम॑त्पंचगव्ये ततः, सिद्धौषध्यथ मूलिका तदनु च स्पष्टाष्टवर्गद्वयम् । मुक्ताशुक्तिसुमुद्रया गुरुरथोत्थाय प्रतिष्ठोचितं, मंत्रैर्दैवतमाह्वयेद् दशदिशामीशाँश्च पुष्पांजलिः ॥४॥ सर्वोषध्यथ सूरिहस्तकलनाद् दृग्दोषरक्षोन्मृजा, रक्षापुट्टलिका ततश्च तिलकं विज्ञाप्तिकाऽथांजलिः । अर्घोऽर्हत्यथ दिग्धवेषु कुसुमस्नानं ततः स्नानिका, वासश्चन्दनकुंकुमे मुकुरदृक् तीर्थाम्बु कर्पूरवत् ॥५॥ निक्षेप्यः कुसुमांजलिर्जलघटस्नानं शतं साष्टकं, मंत्रावासितचन्दनेन वपुषो जैनस्य चालेपनम् । बामस्पृष्टकरेण वाससुमनो धूपाः सुरभ्यम्बुजा-अल्पः स्यात् करलेपकंकणमधो पंचाङ्गसंस्पर्शनम् ॥६॥ धूपश्च परमेष्ठी च, जिनाह्वानं पुनस्ततः, उपविश्य निपद्यायां, नन्यावर्त्तस्य पूजनम् ॥७॥
For Private & Personal Use Only
Gal
Jain Education International
'www.jainelibrary.org