________________
॥ कल्याणकलिका. खं०२॥
॥ अष्टमाहिके अष्टादश अभिषेक विधि
॥ १६१ ।।
I
॥
(८) अष्टमाह्निकम् ।
अष्टादश अभिषेकविधि-आह्निकबीजकम् जिनस्य जन्मवृत्तान्ते, दास्या राज्ञे निवेदिते । राज्ञा नृत्योत्सवमयी, स्थितिश्चके दशाहिका ॥१०४।। तथाहि-प्रथमे घने, कृतकौतुकमङ्गलः । अभिषेकविधिर्वर्यो, विदधे मङ्गलार्थिना ॥१०॥ जलं गन्धाश्च पुष्पादि, स्वस्वमन्त्राभिमन्त्रितम् । अभिषेकेषु सर्वेषु, नियोज्यं विधिवित्तमैः ॥१०६॥ प्रत्येकस्नात्रपर्यन्ते, मूर्धनि पुष्परोपणण् । ललाटे तिलकं धूप-दाहः कार्यो विदांवरैः ॥१०७।। सुवर्णस्य जलेनाऽथ, 'पञ्चरत्नजलेन च । कषायछल्लिनीरेण', मृत्तिकामिश्रवारिणा ॥१०८।। पञ्चगव्यकुशोदेन', सदौषधिजलेन च । मूलिकाचूर्णनीरेणा-ऽऽ द्याष्टवर्गजलेन च ॥१०९।। द्वितीयाष्टकवर्गस्य, वारिणा गुणधारिणा' । विधाप्य स्नाननवकं, जिनाह्वानमथाचरेत् ॥११०॥ दिक्पालांश्च समाहूय, तत्तद्दिशि विनिक्षिपेत् । पुष्पाञ्जलिं ततः सर्वो-षधिस्नानं विधापयेत् ॥१११॥ ततो नव्यजिनं स्पृष्ट्वा, स्वेन दक्षिणपाणिना । मन्त्रन्यासं गुरुः कृत्वा, ग्रन्थिं सर्षपसंभवम् ॥११२।। जिनपाणौ बन्धयित्वा, दुर्दग्दोषनिवारणम् । तिलंक चाञ्जलिं कृत्वा, ततो विज्ञप्तिमाचरेत् ॥११३॥ अर्धं सुवर्णपात्रस्थं, जिनस्याग्रे विमोचयेत् । तथैव दिगधीशाना-मर्घदानं निवेदयेत् ॥११॥
For Private Personal Use Only
॥ १६१ ॥
Tww.jainelibrary.org
Jain Education International