________________
॥ कल्याण
कलिका.
खं० २ ।।
।। १२५ ।।
Jain Education International
देहि देहि स्वाहा ||५|| "
६. शुक्रः -
" दयितसंवृतदानपराजितः, प्रवरदेहि शरण्य ! हिरण्यद ! दनुजपूज्य ! जयोशन ! सर्वदा - दयितसंवृतदानपराजितः || ६ || "
“ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय स्फटिकोज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय सपरिच्छदाय, श्रीशुक्र ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा ||६||"
७. शनैश्वरः
" मा भूत् विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्टगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुतात् विनयोपगूढः ||७|| "
-
‘“ॐ शः नमः शनैश्वराय नीलाम्बराय परशुहस्ताय कमठवाहनाय सपरिच्छदाय श्रीशनैश्वर ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितानि देहि देहि स्वाहा ||७|| ”
For Private & Personal Use Only
।। नव ग्रहपूजा विधिः ॥
।। १२५ ।।
www.jainelibrary.org