________________
॥ कल्याण
कलिका.
खं० २ ।।
।। ११४ ।।
Jain Education International
" प्राग्दिग्वधूवर ! शचीहृदयाधिवास !, भास्वत्किरीट ! विबुधाधिप ! वज्रपाणे ! ॥ एकावतारसमनन्तरसिद्धिशर्मन् !, शक्र ! स्मरन् स्थितिमुपेहि जिनाभिषेके || १|| "
ॐ वषट् नभः श्री इन्द्राय वज्रहस्ताय ऐरावणवाहनाय पूर्वदिगधीशाय सपरिच्छदाय, श्री इन्द्र ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे आगच्छ आगच्छ, जलं गंधं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण, गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमिहितं देहि देहि स्वाहा || १ || २. अग्नि
-
“त्रयीक्रान्ताऽत्यन्तक्षततमोराशिविशदं, जगज्जातालोकं जनयसि जगन्नेत्र ! हुतभुक् ! |
प्रसीदत्येतेन त्वयि मम मनो वाक् च सफला । भवत्येवाऽभ्यर्णीभवति भवति स्नात्रसमये || २ ||"
ॐ नमः श्री अग्नये प्रभूततेजोमयाय आग्नेयदिगधीश्वराय शक्तिहस्ताय मेषवाहनाय सपरिच्छदाय । श्री अग्ने ! सायुधः सवाहनः सपरिच्छद इह अमुकनगरे अमुकस्थाने श्रीजिनप्रतिष्ठामहोत्सवे, आगच्छ आगच्छ, जलं गन्धं पुष्पमक्षतान् फलानि धूपं दीपं नैवेद्यं सर्वोपचारान् गृहाण गृहाण, शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु कुरु, सर्वसमीहितं देहि देहि स्वाहा ||२||
३. यम -
"प्रत्युह समूहापोह - शक्तिरर्हत्प्रभावसिद्धैव । समवर्तिन्निह रक्षा कर्मणि विनियोग एव तव || ३ || "
ॐ घं घं नमो यमाय दक्षिणदिगधीशाय, कृष्णवर्णाय दण्डहस्ताय महिषवाहनाय सपरिच्छदाय, श्रीयम ! सायुधः सवाहनः
For Private & Personal Use Only
॥ तृतीया
ह्निके
दिक्पाला
दिपूजन
विधि ॥
।। ११४ ।।
www.jainelibrary.org