________________
॥ तृतीया
॥ कल्याणकलिका. खं० २॥
हिके
दिक्पालादिपूजनविधि ।
॥ १०८ ॥
३ तृतीयाह्निकम् ।
दिक्पाल-ग्रह-अष्टमंगल-स्थापनपूजनविधि-आह्निकबीजकम् । पूर्वे १ दक्षिणपूर्वे २ च, दक्षिणे ३ ऽपरदक्षिणे ४ । अपरे ५ ऽथाऽपरोत्तर ६, उत्तरोत्तरपूर्वयोः ७-८ ॥४९॥ पाताले ९ ब्रह्मलोके १० च, दिशामीशानिमान्न्यसेत् । इन्द्रमग्निं यमं चैव, निर्ऋतिं वरुणं तथा ॥५०॥ वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च । स्ववर्णरसप्रायोग्य-र्वस्त्रैः फलैस्ततोऽर्चयेत् ॥५१॥
पीत १ रक्ता २ऽसित ३ श्याम ४-खाभ ५ नीलद्युतः ६ क्रमात् । श्वेताः शेषाश्च ७-८-९-१० चत्वारो, दिक्पाला वर्णतो मताः ॥५२॥
दिशांपालान् समभ्यर्च्य, शुभैर्द्रव्यैः सुपट्टके । दिक्षु बलिपरिक्षेपः, कार्यो नाम्ना दिगीशितुः ॥५३॥ अन्यस्मिन् पट्टके नन्द-कोष्ठके खेचरान् यजेत् । सूर्यं चन्द्रमसं भौम, बुध देवगुरुं भृगुम् ॥५४॥ मन्दं राहुं च केतुं च, ग्रहान्न्यसेदिमान् क्रमात् । स्वस्वदिग्मण्डलोपेतान्, स्वस्ववर्णविभूषितान् ॥५५॥ मध्ये' दक्षिणपूर्वे च, दक्षिणोत्तरपूर्वयोः' । 'उत्तरे पूर्वेऽपाच्यां च, "रक्षो वायव्यगा ग्रहाः ॥५६॥ वर्तुलं चतुरस्रं च, त्रिकोणं बाणसंनिभम् । चतुरनं च षट्कोणं, चापाभं शूर्पकाकृति ॥५७।। ध्वजाभं मण्डलान्याहुः, सूर्यादीनामनुक्रमात् । मण्डलानि समालिख्या-ऽऽरब्धव्यं खेटपूजनम् ॥५८॥ रक्तः श्वेतो लोहिताभो, हरितः पीतवर्णभाग् । श्वेतः कृष्णौ च धूमाभः, खेटवर्णाः क्रमादिमे ॥१९॥
For Private & Personal Use Only
॥ १०८ ॥
Jain Education International
www.jainelibrary.org