SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 226 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान ततो वयमपि कृततदनुकाराः स्नात्रं विधाय पौष्टिकमुद्घोषयामः। ततस्त्यक्तकोलाहलैघृतावधानैः श्रूयतां स्वाहा ॐ पुष्टिरस्तु रोगोपसर्गदुःखदारिद्रयडमरदौर्मनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाणां पुष्टिरस्तु ऊँ नमोऽर्हद्भ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोर्हन्तः ऋषभाजित. वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभुवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवेताढ्यमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थंकराः पुष्टिं कुर्वन्तु स्वाहा। भुवनपतिव्यन्तरज्योतिष्कवैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा। ॐ चमरबलिधारणभूतानन्दवेणुदेववेणुदारिहरिकान्तहरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभंजनघोषमहाघोषकालमहाकालसुरूपप्रतिरूपपुण्यभद्रमाणिभद्रभीममहाभीमकिंनरकिंपुरुषसत्पुरुषमहापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयशसन्निहितसन्मानधातृविधातृऋषिऋषिपालईश्वरमहेश्वरसुवक्षविशालहास्यहास्यरतिश्वेतमहाश्वेतपतङ्गपतंगरतिचन्द्रसूर्यशक्रेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तक (शुक्रारणा) शुकसहस्त्रारणाच्युतनामानश्चतुष्षष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा। इन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा। ऊँ सूर्यचन्द्रागारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु-कुर्वन्तु स्वाहा। ऊँ रोहिणी १६ षोडशविद्यादेव्यः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा। ऊँ श्री ही धृतिकीर्तिबुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टिं कुर्वन्तु स्वाहा। ऊँ गणेशदेवताः पुरदेवताः पुष्टिं कुर्वन्तु स्वाहा। अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसनिवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पुष्टिर्भवतु ग्रामाध्यक्षाणां पुष्टिर्भवतु सर्वाश्रमाणां पुष्टिर्भवतु सर्वप्रकृतीनां पुष्टिर्भवतु पौरलोकस्य पुष्टिर्भवतु पार्षद्यलोकस्य पुष्टिर्भवतु जैनलोकस्य पुष्टिर्भवतु अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धिकलत्रमित्रसहितस्य पुष्टिर्भवतु एतत्स Jain Education International For Private & Personal Use Only www.jainelib
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy