SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ -७४] अष्टमः स्तबकः ३१९ ६७४ ) तदनु देवदेव ! त्रिभुवनरक्षणविचक्षण! पापावग्रहविशेषविशोषितभव्यसस्यसमुल्लासक ! धर्मामृतसेकाय दयाध्वजविराजमानां भव्यवरूथिनीं जयोद्योगसाधनं सज्जनधर्मचक्र च पुरस्कृत्य मुक्तिमार्गावस्कन्दननिपुणाया मोहपृतनाया निःशेषनिर्मूलनाय च कालोऽयमुपस्थित इति सविनयं पुरुहूतेन विज्ञापितस्तीर्थकरपुण्यसारथिबोधितः, समीरकुमारसंमाजितयोजनान्तररम्यभूभागः, स्तनितसुरविरचितविमलसुरभिसलिलसंसेकविरहितरजःप्रसरमहीतलः, सकलर्तुकुसुम- ५ पल्लवितसमुल्लसितवल्लिकामतल्लिकाफलविलसिततरुनिकरनिरन्तरितमणिदर्पणप्रतिमावनीतल . विलासः समनुस्रतशिशिरसुरभिमन्दानिलः परस्पराह्वाननिरतदिविजजननिनदपूरितगगनतलः, पुरस्कृताष्टमङ्गलसंगतध्वजमालावितानविचित्रिताम्बरसहस्रदिनकरस्पद्धिसहस्रारधर्मचक्रपुरःसरः , संपूज्य समय॑ आस्थानात् सभामण्डपात् बहिरागतः पृतनया सेनया जुष्टः सेवितश्च सन् सोधेषु हhषुल्लसतां स्फुरतां केतूनां पताकानां वातेन समूहेन निरस्ता दूरीकृता भास्करकरा रविरश्मयो यस्मिस्तत् नैजं स्वकीयं १० पुरं नगरं प्राविशत् प्रविष्टवान् । शार्दूलविक्रीडितच्छन्दः ॥४६॥ ६७४ ) तदन्विति-तदनु तदनन्तरं हे देवदेव ! हे देवाधिदेव ! हे त्रिभुवनस्य रक्षणे त्राणे विचक्षणो विद्वान् तत्संबुद्धी, पापमेव अवग्रहविशेषो वृष्टिप्रतिबन्धविशेषस्तेन विशेषितानि यानि भव्यसस्यानि भव्यजनबीहयस्तेषां समुल्लास कस्तत्संबुद्धौ, धर्मामृतसेकाय धर्मसुकृतसेचनाय दयाध्वजैः कृपाकेतुभिर्विराजमानां शोभमानां भव्यवरूथिनीं भव्यसेनां जयोद्योगस्य विजयप्रयासस्य साधनं सज्जधर्मचक्रं कार्यरतधर्मचक्रं च पुरस्कृत्य अनेकृत्य मुक्तिमार्गे मोक्षमार्गे यद् १५ अवस्कन्दनं लुण्ठनं तस्मिन् निपुणाया दक्षाया मोहपृतनाया मोहसेनाया निःशेषनिर्मूलनाय च समनभावन समुत्पाटनाय च अयं काल: समय उपस्थितः संप्राप्तः इति सविनयं सादरं यथा स्यात्तथा पुरुहूतेन पुरंदरेण विज्ञापितः प्रार्थितः, तीर्थकरपुण्यमेव सारथिस्तेन बोधितः सावधानीकृतः, समीरकुमारैर्वायुकुमारैः समाजितः स्वच्छो कृतः योजनान्तररम्यभूभागो यस्य सः, स्तनितसुरैर्मेघकुमारदेवैर्विरचितः कृतः यो विमलसुरभिसलिलसंसेकनिर्मलसुगन्धितजलसेचनं तेन विरहितरजःप्रसरं दूरीकृतरेणुविस्तारं महीतलं यस्य सः सकलर्तु- २० कुसुमैनिखिलर्तुपुष्पैः पल्लविताः किसलयिताः समुल्लसिताः शोभिता या वल्लिकामतल्लिका श्रेष्ठलतास्तासां फलविलासिताः शोभिता ये तरुनिकरा वृक्षसमूहास्तै निरन्तरितः सान्द्रितो मणिदर्पणप्रतिमावनोतलस्य रत्नादर्शतुल्यमहीतलस्य विलासो यस्य सः, समनुस्रुतः शिशिरः शीतः सुरभिः सुगन्धिर्मन्दश्चानिलो यस्य सः, परम्पराह्वाने निरता लोना ये दिविजजना देवास्तेषां निनदेन शब्देन पूरितं गगनतलं नभस्तलं यस्य सः, पुरस्कृताष्टमङ्गलैः संगता सहिता ध्वजमाला केतुपङ्क्तिः वितानश्चन्द्रोपकश्च तैर्विचित्रितं यदम्बरं नभस्तलं २५ कर समवसरणसे बाहर आया और सेनासे युक्त होता हुआ महलोंपर फहराती हुई पताकाओंके समूहसे जिसमें सूर्यको किरणे दूर हट गयी थीं ऐसे अपने नगरमें प्रविष्ट हुआ॥४६॥ $ ७१ ) तदन्विति-तदनन्तर हे देवोंके देव ! हे तीन लोककी रक्षा करनेमें निपुण ! हे पापरूपी वर्षा के प्रतिबन्ध-विशेषसे सूखती हुई भव्यजीवरूपी धान्यको हरा-भरा करनेवाले ! धर्मरूपी अमृतको सींचनेके लिए और दयारूपी ध्वजासे सुशोभित भव्य जीवोंकी सेना ३० तथा जयरूपी उद्योगके साधन समुत्पन्न धर्मचक्रको आगे कर मोक्षमार्गके लूटनेमें निपुण मोहकी सेनाको समस्त रूपसे निर्मूलित करनेके लिए यह समय उपस्थित हुआ है इस प्रकार इन्द्रने जब विनय सहित प्रार्थना की तब समस्त देशोंमें विहार करते हुए भगवान् क्रम-क्रमसे अपने यशकी शोभाका अनुकरण करनेवाले कैलास पर्वतपर पहुँचे। विहार करते समय तीर्थंकर नामक पुण्य प्रकृति रूपी सारथि उन्हें प्रेरित कर रहा था, वायुकुमार ३५ देवोंके द्वारा एक योजनके भीतरका रमणीय भू-भाग साफ कर दिया गया था, स्तनितकुमार देवोंके द्वारा किये हुए निर्मल सुगन्धित जलके सेकसे पृथिवीतल धूलि रहित कर दिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy