________________
तथा पञ्चदशाहानि यावत् वहति मारुते । जीवेषष्टि दिनोपेतं दिवसानां शतत्रयम् ॥१०१॥ एक-द्वि-त्रि-चतुः पञ्च द्वादशाहनमक्षयात् । षोडशाद्यानि पंचाहा-न्यत्र शोध्यानि तद्यथा ॥१०२।। प्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत्सहाष्टचत्वारि-शतं विनशतत्रयीम् ॥१०३।। वहमाने तथा सप्तदशाहानि समीरणे। अह्नां शतत्रये मृत्यु-श्चतुविशतिसंयुते ॥१०४॥ पवने विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टाशीतिसंयुक्ते गते दिनशतद्वये ॥१०॥ विचरत्यनिले तद्वत् विनान्येकोनविंशतिम् । चत्वारिंशधुते याते मृत्युदिनशतद्वये ॥१०६॥ विशति दिवसानेक-नासाचारिणि मारते । साशीतौ वासरशते गते मृत्युन संशयः ॥१०७॥ एक-द्वि-त्रि-चतुः-पंच-दिनषट्कक्रमक्षयात् । एकविंशादिपञ्चाहा-न्यत्र शोध्यानि तद्यथा ॥१०८॥ एकविंशत्यहं त्वर्क-नाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥१०॥ द्वाविंशतिदिनान्येवं सद्विषष्टावहःशते । षड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥११०॥ तथैव वायौ वहति चतुर्विशतिवासरों। विशत्यभ्यधिके मृत्यु-र्भवेद्दिनशते गते ॥१११॥ पञ्चविंशत्यहं चैवं वायौ मासत्रये मतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥११२।। सप्तविंशत्यहवहे नाशो मासेन जायते । मासार्धन पुनर्मृत्यु-रष्टाविंशत्यहानुगे ॥११३॥ एकोनत्रिशवहगे मृतिः स्याद्दशमेऽहनि । त्रिंश दिनचरे तु स्यात् पञ्चत्वं पञ्चमे दिने ॥११४॥
Yoga Shashtra
154
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org