________________
जन्मऋक्षगते चन्द्रे समसप्तगते रवौ । पौष्णनामा भवेत्कालो मृत्युनिर्णयकारणम् ॥७॥ दिनाधं दिनमेकं च यदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽन्दे मृत्यवे भवति क्रमात् ॥८॥ तथैव च वहन् वायुरहोरात्रं द्वयहं त्र्यहम् । दशमाष्टमषष्टान्दे-ध्वन्ताय भवति क्रमात् ॥८९॥ वहन दिनानि चत्वारि तुर्येऽन्दे मृत्यवे मरुत् । साशोत्यहःसहस्र तु पंचाहानि वहन् पुनः ॥९०।। एक-द्वि-त्रि-चतुः-पंच चतुर्विशत्यहः क्षयात् । षडादीन दिवसान् पञ्च शोधयेदिह तद्यथा ।।९१॥ षटकं दिनानामऽध्यऽकं वहमाने समीरणे । जीवत्यह्नां सहस्र पट् पञ्चाशदिवसाधिकम् ।।६२॥ सहस्र साष्टकं जीवेद वायौ सप्ताहवाहिनि । सषत्रिंशन्नवशती जीवेदष्टाहवाहिनि ॥६३॥ एकत्रैव नवाहानि तथा वहति मारुते । प्रह्लामष्टशती जीवे-च्चत्वारिंशदिनाधिकाम् ।।९४।। तथैव वायौ प्रवह-त्येकत्र दश वासरान् । विंशत्यधिकामह्नां च जीवेत्सप्तशती ध्रुवम् ॥६५।। एक-द्वि-त्रि-चतुः पञ्च-चतुविंशत्यहः क्षयात् । एकादशादिपञ्चाहा-न्यत्र शोध्यानि तद्यथा ॥९६।। एकादश दिनान्यर्क-नाड्यां वहति मारुते । षण्णवत्यधिकाहानां षट् शतान्येव जीवति ॥९७॥ तथैव द्वादशाहानि वायौ वहति जीवति । दिनानां ष्टशतीमष्ट-चत्वारिंशत् समन्विताम् ।।९८॥ त्रयोदशदिनान्यर्क-नाडीचारिणि मारुते । जीवेत्पञ्चशतीमह्नां ष्टसप्तपि दिनाधिकाम् ॥६६॥ चतुर्दश दिनान्येवं प्रवाहिनि समीरणे । प्रशीत्यभ्यधिकं जीवेदह्नां शतचतुष्टयम् ॥१००।
Fifth Chapter
153
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org