________________
(५८०) पार्थस्य कस्योस् , 'युक्तवदुसि लिङ्गसङ्ख्ये' इति नपुंसकत्वम् । तेन हारी मनोहरः भृङ्मासङ्गीतहारी। सान्द्रच्छायः - having intense or pleasing shader सान्द्र - (1) intense; (2) pleasing. सान्द्रा निबिडा सुखदा वा च्छाया अनातपः यस्य सः । सलिलधरणोपान्तपुस्तैणशाव: - possessing in the vicinity of its basin a mould of a fawn made by plasterning. सलिलं धरति ध्रियते वानेन सलिलधरणम् । 'व्यानड् बहुलम्' इति कर्तरि ' करणे चाऽनट्' इति करणे वाऽनट् । आलवालमित्यर्थः । पुस्यते अभिमृद्यते मृदत्र पुस्तम् । लेप्यकर्मेत्यर्थः । 'पुस्तं तु पुस्तके क्लीबं विज्ञाने लेप्यकर्मणि' इति विश्वलोचने । पुस्तं लेप्यकर्म अस्व अस्तीति पुस्तः । 'ओऽभ्रादिभ्यः' इत्यः । लेप्यकर्मविनिर्मितः इत्यर्थः । एणशावः मृगशिशुः ।' कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः। गोकर्ण पृषतैणश्यरोहिताश्चमरो मृगाः' इत्यमरः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । सलिलधरणस्योपान्तः सलिलधरणोपान्तः । तत्र पुस्तः लेप्यकर्मविनिर्मितः एणशावः यस्य सः सलिलधरणोपान्तपुस्तैणशावः । एणस्य शावः पृथुकः एणशावः । पुस्तश्चा एणशावश्च पुस्तैणशावः । आलवालोपान्त प्रदेशस्थितलेप्यकर्मविनिर्मितमृगशिशुरित्यर्थः। कृतकतनयः - an adopted son. कृतकः अनौरसः अपि पुत्रत्वेनोररीकृतः तनयः कृतकतनयः । पुत्रीयितः इत्यर्थः । हस्तप्राप्यस्तबकनमितः - bent down owing to the. clusters (of flowers) worthy of being plucked by hand. हस्तेन प्राप्याः अपचेयाः हस्तप्राप्याः । ते च ते स्तबकाः गुच्छाश्च । तैः नमितः नम्रीकृतः ।
Stanza 14-मरकतशिलाबद्धसोपानमार्गा - having a flight of steps built of emerald slabs. मरकतं गारुत्मतम् । तस्य शिलामिः पाषाणखण्डै:
आबद्धानि विरचितानि सोपानानि एव मार्गः यस्याः सा। 'गारुडत्मतं मरकत' इत्यमरः । दीर्घवैदूर्यनालैः - having long stalks resembling those made of Vaidnrya. वैदूर्याणि च तानि नालानि च वैदूर्यनालानि । दीर्घाणी वैदूर्यनालानि येषां तानि दीर्घवैदूर्यनालानि । तैः । विदूरात् प्रर्वतात् प्रभवतीति वैदयों मणिः । हैमैः - resembling those made of gold. हेम्नः विकारः अवयवो या हैमम् । हैममिव हैमम् ।
Stanza 15-कृतवसतयः - residing. कृता विहिता वसतिः अधिविसः यः ते । व्यपगतशुचः - who have their distress dispelled. व्यपगताः वागलिताः शुचः शोकाः व्यपत्शुचः । 'मन्युशोको तु शुक् मियाम्' इत्यमरः । न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org