SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ३५२ [पार्धाभ्युदये भाषितुं प्रक्रमेथाः आरभस्व । 'प्रोपात्समर्थात् ' इति प्रात्समर्थात्क्रमेर्दः । समर्थत्वमत्रादिकङ्गिीकरणनिबन्धनम् । If this is determined by you, altogether free from fear on account (your ) boldness flown very bigh, then you, cherishing a very strong desire to engage (yourself ) in a combat and having (your ) sword unsheathed, should slacken ( your ) constant practice of meditation; having repudiated taciturnity you, uttering words in the form of thundering sounds, should begin to talk to the proud lady very eloquently and boldly. भीते शस्त्रं यदि भटमते वावहीम्यस्त्रशून्ये स्त्रीम्मन्ये वा चरणपतिते क्षीणके वा स कश्चित् । पादस्पृष्टया शपथयति वा जातु हिंसां भुजिष्यं भर्तुमित्रं प्रियमभिधे विद्धि मामम्बुवाहम् ॥ १३ ॥ अन्वयः-भीते, अस्त्रशून्ये भटमते, स्त्रीम्मन्ये वा, चरणपतिते, क्षीणके वा, पादस्पृष्टया शपथयति वा यदि जातु शस्त्रं स कश्चित् ( अहं) वावहीमिः भर्नुः प्रियं मित्रं अम्बुवाहं मां हिंसां भुजिष्यं विधिद इति अभिदधे ।। - भीते इत्यादि । भीते भयव्याकुले अस्त्रशून्ये अग्रहीतशस्त्रपाणौ । अस्त्रेण शून्यः रिक्तः अस्त्रशून्यः । तस्मिन् । 'शून्यं तु वशिकं तुच्छरिक्तके' इत्यमरः । भटमतः भटैराहतः 'भटः' इति ख्याति प्राप्तः वा । भटैः मतः भटमतः । मतशब्दस्य भूते क्तान्तत्वाद्भासः । नायं मतशब्दः वर्तमाने क्तान्तः । तेन भटशब्दस्य समस्तत्वात् 'जीन्मत्यर्थशील्यादिभ्यः क्तः '. इति सूत्रविहितक्तत्यान्तेन सस्य 'कर्तरि क्तेन' इति सूत्रेण प्रतिषिद्धत्वात् । पूर्व भेटेराहतस्यास्त्रविकलस्य शम्बरासुरोक्तिकाले परमार्थसद्भटत्वस्याभावात् क्तान्तस्य भूतार्थकत्वाद्भटमतशब्दस्य भासस्वग्रहणमेवोचितं प्रतिभाति । स्त्रीम्मन्ये वा स्त्रीमानिनि वा । स्त्रीमात्मानं मन्यते स्त्रीम्मन्यः । तस्मिन् । 'खर स्वस्य' इति खश् । तस्य च खित्त्वात् ' मुमचः' इति मुमागमः। खित्यझेः कृति' इति प्रत्वस्य प्राप्तावपि स्त्रीशब्दस्यैकाच्वात् 'अमेकाचोड म्वत्' इति सूत्रेणामीव कार्यस्य विधानात्प्रत्वस्य प्रतिषेधः । चरणपतिते मच्चरणविसृष्टापघने । चरणौ पतितःचरणपतितः । तस्मिन् । ' इप्तस्छ्रितादिभिः ' इति पतितेन चरणावितीबन्तपदस्य षसः । क्षीणके वा क्षीणतेजसि वा। क्षीणः कः द्योतः तेजः यस्य सः क्षीणकः । तस्मिन् । ' को ब्रह्मानिलसूर्याग्नियमात्मद्योतबहिषु' इति विश्वलोचने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy