________________
चतुर्थः सर्गः]
३५१
योधुकामः अस्युत्खातः ध्यानाभ्यास शिथिलय; वाचंयमत्वं प्रोज्झ्य स्तनितवचनः मानिनी पटुतरगिरं धीरं वक्तुं प्रक्रमेथाः ।
. यदीत्यादि । यदि चेत् अतिप्रौढमानोद्धरस्य अतिशयेन वृद्धि प्राप्तेन मानेन निर्भयस्य । अतिप्रौढः अतिशयेन वृद्धि प्राप्तश्चासौ मानश्चित्तसमुन्नतिश्च अतिप्रौढमानः । 'प्रादूहोढोढ्येषैष्ये' इति प्रादूढे परतः ऐप् । तेन उद्धरः निर्भयः । तस्य । ते तव एतत् ' काञ्चित् सुरवधू आपूर्णकामां कुरु' इत्येतद्वचः अनुसतुं अध्यवसितं निश्चयः । मद्वचनानुसारेण काञ्चन देवाङ्गनामापूर्णकामां कर्तुं यदि भवता निश्चयः कृतः इति भावः । ततः तर्हि निकामं पर्याप्तं । यथेप्सितमित्यर्थः । क्रियाविशेषणमेतत् । 'कामं प्रकामं पर्याप्त निकामेष्टं यथेप्सितं' इत्यमरः । योद्धकामः युयुत्सुः। 'सम्तुमोर्मनःकामे' इति तुमो मकारस्य खम् । अस्युत्खातः उद्गीर्णखड्गः । उत्खातः कोशाबहिनिष्कासितः असिः खड्गः येन सः। 'क्ताच्चास्त्रं' इत्यस्त्रवाचिनोऽसिशब्दस्य क्तान्तात्पूर्व प्रयोगः बसत्वात् । ध्यानाभ्यासं एकाग्रचिन्तानिरोधलक्षणस्य ध्यानस्याभीक्ष्ण्यं । ध्यानस्य समाधेः अभ्यासः पुनः पुनः करणमाभीक्ष्ण्यं वा ध्यानाभ्यासः । तम् । शिथिलय श्लथं कुरु । ' मृदो ध्वर्थे णिज्बहुलं' इति शिथिलशब्दात्करोत्यर्थे णिज् । निकाममिति क्रियाविशेषणस्य 'निकामं शिथिलय' इत्येवमप्यन्वयो विधेयः । वाचंयमत्वं तूष्णींभावं । वाचं यच्छति निगृह्वातीति वाचंयमः। वाचं निगृह्य यो मौनेनास्ते स वाचंयम इत्यभिधीयते । तस्य भावः वाचंयमत्वं । मौनित्वमित्यर्थः। 'वाचंयमो व्रती' इति वाक्पूर्वाद्यमेः खच् अमश्चानुप् । प्रोग्य परित्यज्य स्तनितवचन: गर्जितशब्दः । स्तनितं गर्जितं वचनं शब्दः यस्य सः । 'स्तनितं गर्जितं मेघनिर्घोषे रसितादि च' इत्यमरः । स्तनितवचनैरित्यर्थः । 'वक्तुं धीरैः स्तनितवचनैः ' इति पाठान्तरम् । तदपि समीचीनम् । मानिनी प्रणय कोपवर्ती । दीर्घकालिकविप्रलम्भजनितकोपवतीमित्यर्थः । ' प्रमदा मानिनी कान्ता ललना च नितम्बिनी' इत्यमरः । मानः प्रणयकोपः अस्याः अस्तीति मानिनी। ताम् । काचिदेवाङ्गना चिरात्वय्यासक्तमतिस्त्वत्तोऽप्राप्तरतिसुखा सती तुभ्यं कुपितास्तीति भावः । पटुतरगिरं अतिपट्टी वाचम् । अतिशयेन पट्टी पटुतरा । सा चासो गीश्च पटुतरगीः । ताम् । प्रचुरचातुर्यसम्पन्नां वाचमित्यर्थः । यद्वा पटुतरा गीः यस्मिन् कर्मणि यथा स्यात् तथेति क्रियाविशेषणत्वमप्यस्थ सम्भवति । धीरं निर्भयतया दृढतया वा । तस्याः पुरस्तात्त्वया निर्भयतयैव वक्तव्यं त्वद्वचनस्य कातरत्वे तया तस्य मिथ्यात्वेन ग्रहणप्रसङ्गात् । दृढतयेत्यर्थग्रहणे तदनाश्वासनप्रसङ्गपरिहारः । वक्तुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org