SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३२० [पार्धाभ्युदधे threshold for counting the remaining months, become calculable oven in the regeneration owing to the intrinsic power attained through gock hood so as to display as if the occasions of her deaths committed to memory or enjoying in a dream the pleasure of sexual connexion, realised as though in action, with you, the working of which is portrayed in mind, owing to the feelings of sexual intercourse ) being implanted in her mind or being pacified by her friends through foar roused by her being unconscious, will fall within the range of your eyesight first these are mostly the means of alleviating miseries adopted by ladies during the period of separation from their lovers. सख्यालापैः सुखविरुतिभिस्तद्विनोदैस्तथाऽन्यः सव्यापारामहान न तथा पीडयेद्विप्रयोगः । स्वापापायाधृदयनिहितं त्वामजस्रं स्मरन्ती शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ॥ ४२ ॥ अन्वयः- [ यथा ] रात्रौ स्वापापायात् हृदयनिहितं त्वां अजस्रं स्मरन्ती गुरुतरशुचं निर्विनोदां ते सखीं [ विप्रयोगः पीडयेत् ] तथा अहनि सुखविरुतिभिः सख्यालापैः तथा अन्यः तद्विनोदैः सव्यापारां विप्रयोगः न पीडयेत् [ इति ] शङ्के । सख्यालापरित्यादि। यथा रात्रौ निशायां स्वापापायात् निद्राविगमात् । स्वापः निद्रा। तस्य अपायः अपगमः । तस्मात् । हेतावत्र का। हृदयनिहितं हृदये स्थापितं । हृदये मनसि निहितः स्थापितः हृदयनिहितः । तम् । त्वां भवन्तं । अजलं अनवरतं । 'नित्यानवरताजस्रं' इत्यमरः । स्मरन्तीं स्मृतिविषयता नयन्ती । ध्यायन्ती- . मित्यर्थः । गुरुवरशुचं तीव्रतरदुःखसंवेदनां। अतिशयेन गुर्वी गुरुतरा । गुरुतरा शुक् शोकः यस्याः सा। ताम् । गुरुशब्दस्योक्तपुंस्कत्वात् 'तसादौ' इति पुंवद्भावः । निर्विनोदां विरहजनितदुःखापनयनविनोदव्यापाररहिता ते भवतः सखी प्रेयसी वसुन्धराचरी किन्नरकन्यका वि योगः वियोगः पीडयेत् बाधेत तथा तेन प्रकारेण अहान दिने सुखविरुतिभिः सुखोत्पादकशब्दैः। शोभनानि खानीन्द्रियाण्यस्मिन् सुखयति वा सुखम् । सुखाः सुखावहाः विरुतयः शब्दाः येषां ते। तैः । सख्यालापैः आलीनामाभाषणैः । 'स्वादाभाषणमालापः' इत्यमरः। तथा अपि च । 'तथा सादृश्यनिर्देशनिश्चयेषु समुच्चये' इति विश्वलोचने । अन्यैः सख्यालापेभ्यो भिन्नः तद्विनोदैः विरहजनितदुःखापनयनोपायैः सव्यापारां विरहजनितदुःखापनयनविनोदव्यापारनिमन्ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy