SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] अन्तस्तोयोच्चलनसुभगां भाविनीं तामवस्थां मन्वानास्तास्सुनिभृततरं सानुदेशे निषण्णम् । तंत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ॥ ७७ ॥ अन्वय :- अन्तस्तोयोच्चलनसुभगां तां भाविनीं अवस्थां मन्वानाः ताः सुरयुवतयः सुनिभृततरं तत्र सानुदेशे निषण्णं वलय कुलिशोद्धट्टनोद्गीर्णतोयं त्वां यन्त्रधारागृहत्वं अवश्यं नेष्यन्ति । २२७ अन्तरित्यादि । अन्तस्तो योश्चलनसुभगां । अन्तस्त्वद्वपुरन्तर्भागे यत्तोयं सलिलं तस्योच्चनेन बहिर्निर्गमनेन । गलनेनेत्यर्थः । सुभगां मनोहरां । तां विशिष्टां भाविनी भविष्यकालसम्भवां । वृष्टयुत्तरकालसम्भवामित्यर्थः । अवस्थां परिणतिं . मन्वानाः विचारगोचरतां नयन्त्यः ताः सुरयुवतयः त्रिदशयोषाः सुनिभृततरं सुनिश्चलतरं तत्र सानुदेशे कैलासाचलप्रस्थप्रदेशे निषण्णं उपविष्टं वलय कुलिशोद्धट्टनोद्गीर्णतोयं कङ्कणखचितवज्रप्रहारोद्वान्तसलिलं । वलयानां कङ्कणानां कुलिशानि वज्राणि वलयकुलिशानि । कङ्कणखचिताः वज्रमणयः इत्यर्थः । यद्वा वलयान्येव कुलिशानि वलयकुलिशानि । तैस्तेषां वा उद्घट्टनानि प्रहाराः । तैरुद्गीर्णमुद्वान्तं । उत्सृष्टमित्यर्थः । तोयं सलिलं येन सः । तम् | त्वां भवन्तं । यन्त्रधारागृहत्वं शिल्पिकल्पितसाधननिःसृताः धाराः आसाराः यन्त्रधाराः । तासां गृहत्वं गेद्दत्वं । नेष्यन्ति गमयि - ध्यन्ति। उन्मुक्तजलप्रवाहं यन्त्रधारागृहं नीरधारासारसङ्कुलं भवति तथा सुराङ्गनाकङ्कणप्रहार जर्जरितशरीरस्त्वमपि मुक्तधारासारो भवितेति भावः । 1 Jain Education International Those heavenly damsels, taking into consideration that future state beautiful on account of the discharge of the internal water, would surely transform you, sitting very silently there on the top of the peak discharging water owing to the strokes of the bracelets beset with diamonds, into a shower-bath. आकर्षन्त्यो तिमिव सरस्तोयपूर्णामधस्तात् क्रीडिष्यन्ति त्रिदशवनितास्त्वामितश्चामुतश्च । ताम्यो मोक्षो यदि तव सखे धर्मलब्धस्य न स्यात् । क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भीषयेस्ताः ॥ ७८ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy