SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २२६ [पार्धाभ्युदये इन्द्राणी चेदुपगतवती जैनगेहानुपातं __ तस्मिन्निज्यां रचयितुमना देवभक्त्या तदास्याः। भगीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायामचारी ॥ ७६ ॥ अन्वय :- देवभक्त्या इज्यां रचयितुमनाः इन्द्राणी जैनगेहानुपातं उपगतवती चेत् तदा स्तम्भितान्तर्जलौघैः भगीभक्त्या विरचितवपुः अग्रचारी मणितटारोहणाय अस्थाः सोपानत्वं कुरु । . इन्द्राणीत्यादि । देवभक्त्या अर्हतः श्रद्धानेन इज्यां अर्हच्चरणसपर्या । यजनमिज्या । 'व्रज्यजः क्यप्' इति भावे क्यप् । रचयितुमनाः रचयितुं कर्तुं मनः अभिप्रायः यस्याः सा। 'सम्तुमोमनः कामे' इति मनसि परतः तुमो मकारस्य खम् । इन्द्राणी पुरन्दरभार्या । 'वरुणभवशवरुद्रेन्द्रमृडात्' इति ङी स्त्रियामानुक् च । जैनगेहानुपातं प्रतिजिनेन्द्रमन्दिरमनुपत्य । जैनगेहं जैनगेहं अनुपत्यानुपत्य जैनगेहानुपातं । वीप्सायामाभीक्ष्ण्ये च द्विः। 'क्शिपत्पद्स्कन्दां व्याप्यासेव्ये' इति णम् । उपगतवती चेत् प्राप्तवती चेत् तदा तस्मिन्समये स्तम्भितान्तर्जलौघैः घनीकृन्तातःसलिलसमूहैः। 'ओषः परम्परायां स्याद्रुतनृत्योपदेशयोः । ओघः पाथःप्रवाहे च समूहे च पुमानयम्' इति विश्वलोचने । भगीभक्त्या सोपानाकारविरचनया। विरचितवपुः कल्पितस्वकायः। विरचितं कल्पितं वपुः शरीरं येन सः। अग्रचारी पुरोगः । पुनः पुनः अग्रे चरतीति अग्रचारी । 'ताभीक्ष्ण्ये ' इति णिन्नाभीक्ष्ण्ये । मणितटारोहणाय रत्नखचिततटमारोहुँ । मणीनां तटं मणितटं। तस्य आरोहणं । तस्मै । मणितटारोहणार्थमित्यर्थः । अस्याः इन्द्राण्याः सोपानावं सोपानकर्म कुरु विधेहि । सोपानस्य भावः सोपानत्वम् । आरोहावरोहावसरे चरणस्यावकाशप्रदानं सोपानस्य भावः इत्यर्थः। सोपानाकारपरिणामितस्वशरीरावयवे सञ्चरन्त्याः पुरन्दरभार्याया अवकाशं देहीत्यर्थः । If the wife of Indra, desirous of performing worship with devotion to god, happens to be there while visiting temple after temple dedicated to Jina, at that time, you, moving in front of her, having your body shaped into a flight of steps with your water caused to be constrained inside, should serve as a staircase for her to ascend the jewelled slopes. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy