________________
१५४
[ पार्धाभ्युदये विश्वलोचने । प्रियान्ते स्वपतिसमीपे । स्वप्रीतिभाजनसौधर्मेन्द्रसकाशे इत्यर्थः । साधुवादैः 'साधु साधु' इति प्रशंसापरैर्वचनैः। 'जनोदाहरणं कीर्ति साधुवादं यशो विदुः' इति धनञ्जयः । 'साधूनां सत्पुरुषाणां वादः साधुवादः । कुशलो योग्यो हितश्च साधुरुच्यते' इत्यमरकीर्तिः। अत्र चार्वर्थे साधुशब्दप्रयोगः । 'साधुद्धिषिके पुंसि चारुसजनयोस्त्रिषु' इति विश्वलोचने । भवान्या शच्या इन्द्राण्या वा । भवः श्रेयः अणिमाद्यष्टविधमैश्वर्यमस्यास्तीति भवः । इन्द्र इत्यर्थः । 'भवः श्रीकंठसंसारश्रेयःसत्ताप्तिजन्मसु' इति विश्वलोचने। तस्य पत्नी स्त्री वा भवानी । इन्द्राणीत्यर्थः । 'वरुणभवशर्वरद्रेन्द्रमृडात्' इति पुंयोगात् डी आनुक् च । तया शान्तोद्वेगस्तिमितनयनं । शान्तः प्रशमं गतश्चासौ उद्वेग उसमश्च शान्तोद्वेगः । शान्तोद्वेगेन स्तिमिते स्तब्धत्वं प्राप्ते च शान्तोद्वेगस्तिमिते । शान्तोद्वेगस्तिमिते नयने यस्मिन् कर्मणि स्यात्तथा । हसः । त्वद्विरचितनाट्यदिदृक्षया तत्रैकस्मिन्नने बद्धत्वात्प्रशमितचलने; तत एव च स्तिमिते न्यने कृत्वेत्यर्थः । 'उद्वेग उझूमे' इत्यमरः। ओविजी भयचलनयोरित्यस्माद्धोर्घञ् । उद्वेगो भयमित्यन्ये । नाट्यं वितन्वतो मेघस्य रौद्रत्वाभावात् भयासम्भवाच्छान्तोद्वैगेतिसामासिकपदस्थोद्वेगशब्दस्य भयमित्यर्थोऽन्यत्र ग्राह्यत्वं नातिवर्तते । चिरं चिरकालं यावत् । दृष्टभाक्तिः दृष्टाऽवलोकिता भक्तिः जिनगुणानुरागः यस्य सः । दृष्टभाक्तिरिति पाठः शास्त्रविरुद्धः 'रुयुक्तपुंस्कादनूरेकार्थेऽप्रियादौ स्त्रियाम्' इति दृष्टशब्दस्योक्त. पुस्कत्वेऽपि भक्तिशब्दस्य प्रियादिगणपाठे पठितत्वात् पूर्वपदस्य पुंस्त्वासम्भवात् । दृढं भक्तिर्यस्यासौ दृढभक्तिरित्यादिवदप्यस्य प्रकृतस्य पाठस्य सामञ्जस्यं न घटते। 'दृढं भक्तिरस्य दृढभक्तिः, शोभनभक्तिरित्यादौ न पूर्वपदं स्त्रीलिङ्गमिति । तेन प्रियादौ द्यौ पूर्वस्य टाबाशङ्का न कर्तव्या' इति महावृत्तिकारोक्त्यनुसारेणापि प्रकृतपाठस्य समीचीनत्वं घटामटेन्न वेति वयं न जानीमः । सुरुचिरतनुः । सुतरां रुचिरा मनोज्ञा तनुः कायः यस्य सः । सुशोभनशरीर इत्यर्थः । तारापुष्पप्रकररुचिरे । तारा एव पुष्पाणि । तेषां प्रकरः विकीर्णकुसुमसमूहः तारापुष्पप्रकरः । 'प्रकरो निकुरम्बे स्यात्प्रकीर्णकुसुमादिषु' इति विश्वलोचने । तेन रुचिरो मनोज्ञः । तस्मिन् । व्योमरगे । व्योमैव रङ्गो नृत्तस्थलं! तस्मिन् । 'रङ्ग त्रपुणि रङ्गो ना रोगे वृत्तस्थले रणे' इति भास्करः। तां प्रसिद्धा । सौम्यविद्युन्नटी । विद्युदेव नटी विद्युन्नटी । सौम्या मनोज्ञाऽनुग्रा वा विद्युवटी सौम्यविद्युन्नटी । तो । 'सौम्योऽथ वाच्यवत् । बौद्ध मनोरमेऽनुग्रे पामरे सोमदैवते' इति विश्वलोचने । नाटय नर्तय ।
Performing a dance, you, with (your) devotion noticed for a long time with (her) eyes rendered motionless owing to their rolling being
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org