________________
प्रथमः सर्गः ]
११५
श्रमः सन् । वननदीतीरजानां वननदीत्याख्यायाः वने प्रवाहिन्याः वा सरितः तीरे कूले जातानां । वननद्याः तीरे प्ररूढानां । उद्यानानां उपवनानां यूथिकाजालकानि गणिकाको निकुरम्वाणि । यूथिकायाः मगधदेशोद्भवायाः गणिकापराभिधानायाः पुण्यगन्धायाः जालकानि कुलानि । यूथिकालक्षणं यथा यूथिका बालपुष्पा च पुण्यगन्धा गुणोज्वला । गणिका चारमोटा च शिखण्डी श्वेतयूथिका ।' इति । 6 जालकः कोर के दम्भप्रभेदे जालिनीफले । गिरिसारे जलौकायां' इति च विश्वलोचने । नवजलकणः नूतनैः जलबिन्दुभिः । ' कणोऽतिसूक्ष्मे धान्यांशे ' इति विश्वलोचने । निषिञ्चन् आर्द्राकुर्वन् व्रज गच्छ ।
Taking rest on that mountain, having its uppermost part beautiful, attractive owing to the roars of the rivulets falling down from its peaks, having its low-lands overcrowded with trees grown all over, you should proceed on sprinkling with fresh water-drops the clusters of buds of the jasmine creepers grown on the banks of the Vananadi ( or forest rivers ).
G
अध्यारूढे तपति तपने पुष्पगुल्माव कीर्णां तस्यास्तीरक्षितिमतिपतेर्नातिवेगाद्दयालुः । गण्डस्वेदापनयन रुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १०२ ॥
अन्वयः --- अध्यारूढे तपने तपति ( सति ) गण्डस्वेदापनयन रुजाक्लान्तकर्णीपलानां पुष्पलावीमुखानां छायादानात् क्षणपरिचितः दयालुः ( त्वं ) तस्याः पुष्पगुरुमावकीर्णी तीरक्षितिं नातिवेगात् अतिपतेः ।
6
"
अधीत्यादि । अध्यारूढे व्योममण्डलमध्यमाश्रिते तपने सहस्रकिरणे तपति सति प्रखरतर किरणोत्सर्गे कुर्वति सति । यद्भावाद्भावगतिः इति ईप् । गण्डस्वेदापनयन रुजाक्लान्तकर्णोत्पलानां कपोलतललीन स्वेदसलिलविलयन विधानजनितसङ्कुशाम्लानकर्णकमलानां । गण्डे कपोलतले स्वेद: तिग्मरुचिप्रखर कर निकरजनितधर्मन्दिवः गण्डस्वेदः । तस्यापनयने प्रमार्जने अपनयनेन प्रमार्जनेन वा या रुजा उपतापः तया अक्लान्तानि ईषन्मलानानि कर्णोत्पलानि कर्णकमलानि यासां ताः। तासाम् । रुजा रुक् पीडेत्यर्थः ‘षिद्भिदादिभ्योऽङ्' इति भावेऽकर्तरि स्त्रियामङ् । आक्लान्तानीत्यत्राङीषदर्थे। कर्णोत्पलानि मुखसौन्दर्यविवृद्ध्यर्थं कर्णे धार्यमाणानि कमलानि । पुष्प
Jain Education International
* For Private & Personal Use Only
www.jainelibrary.org