SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] शरीरान्तः प्रविश्य स्थितेन नागचेन स्फुरितरुचिना प्रकटितकान्तिना बहेण मायुरेण पिच्छेन क्रीडाहेतोः क्रीडायाः कृते विरचिततनोः अलङ्कृतस्वशरीरस्य । विशेषेण रचिता अलङ्कृता तनुः शरीरं येन यस्य वा तस्य । इन्द्रनीलत्विषः हरिन्मणितुल्यकान्तेः हरितुल्यनीलकान्तेर्वा । इन्द्रस्येव नीला हरिद्वर्णा स्विट् कान्तिः यस्य सः । यद्वा इन्द्रनीलस्येव हरिन्मणेः इव त्विट् कान्तिः यस्य सः । गोपवेषस्य आभीरवेषस्य । बल्लववेषधारिणः इत्यर्थः । गोपस्य आभारस्य वेषः इव वेषः यस्य सः । यद्वा गोपस्येव वेषः यस्य सः । ' ईबुपमापूर्वस्य द्युखं गतार्थत्वात् ' इत्युपमानपूर्वपदस्य गतार्थत्वाद्यभूतस्य वेषशब्दस्य खं । विष्णोः इव बलदेवभ्रातुः शाङ्गिण इव ते भवतः अधिका शोभा स्यात् अधिकं शोभमानो भविष्यसीत्यर्थः । 'प्रततिक्ततौ ततौ' इति विश्वलोचने । त्वयि प्रहृतत्वात् त्वच्छरीरप्रविष्ट शकुं मोत्पाटय । तेन त्वच्छरीरप्रविष्टेन नाराचेन गोपवेषस्य विष्णोरिव ते शोभा अधिका स्यादिति तात्पर्यम् । ___Or, oh ! you, the foremost of warriors, should bear, thus only one charge of my arrow, assigning beauty owing to its construction like that of the hinder part of the eye of the peacock's feather, by means of which your beauty, like that of Vishnu, clad in clothes like those of a. milkman, possessing a bluc-dark complexion, having his body decorated for the sake of sports with shining feathers of a peacock, would be enhanced. आस्तां तावत्प्रहरणकथा स्वर्ययाऽज्यं तवाऽयं मार्गः स्वों वियदभिपतेः प्रागमुष्मात्प्रदेशात् । जीमूतत्वं दधदनुगतः क्षेत्रिणां दृष्टिपातैः त्वयायत्तं कृषिफलमिति भूविलासानभिज्ञैः ॥ ६१॥ अन्वयः-यया स्वः तव अज्य सा प्रहरणकथा तावत् आस्तां । अयं स्वर्जः मार्गः । 'कृषिफलं त्वयि आयत्त' इति भूविलासानभिज्ञैः क्षेत्रिणां दृष्टिपातैः अनुगतः जीमूतत्वं दधत् अमुष्मात् प्रदेशात् वियत् अभिपतेः । आस्तामित्यादि । यया प्रहरणकथया स्वः स्वर्गः । 'स्वर्गे परे च लोके स्वः' इत्यमरः । तव अयं त्वया प्रापणीयं । 'व्यस्य वा कर्तरि' इति व्यान्तप्रयोगे कतरि. ता । सा प्रहरणकथा सा युद्धवार्ता । प्रह्रियते अस्मिन् इति प्रहरणं । युद्धमित्रार्थः । 'करणाधारे चानट्' इत्याधारेऽनट् । यद्वा प्रह्रियतेऽनेनेति प्रहरणमायुधं । करणेऽनऽत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy