SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [पार्श्वभ्युदये जिनान्तरे' इति विश्वलोचने । एकं दृढं ग्रहारं एकं स्थूलं आघातं । ' स्याद् दृढः स्थूलबलिनोः दृढं बाढप्रगाढयोः' इति विश्वलोचने । कथमपि महता कष्टेन अपि सहस्व अनुभव । येन प्रोच्छलद्रक्तधारेण प्रहारेण ते मरुभूतिचरस्य पार्श्वस्य श्याम कृष्णवर्णं । ' श्यामस्तु हरिते कृष्णे प्रयागस्य वद्रुमे । पिके पयोधरे वृद्धदारकेऽपि पुमानयम् । श्यामवर्णे हरिद्वणे ' इति विश्वलोचने । वपुः शरीरं । विद्युदण्डस्फुरितरुचिना विद्युदेव दण्डः विद्युद्दण्डः । विद्युद्दण्डस्य दण्डाकारधारिण्याः विद्युतः स्फुरिता प्रज्वलिता या रुचिः तेजः । तेन । वारिदस्य मेघस्य वपुः इव अतितरां अधिकतरा कान्ति शोभां भूयः बाहुल्येन आपत्स्यते प्राप्स्यति । Endure anyhow one heavy stroke of my sworil, making your blood gush out on your breast which is as lard as an adamant, by which your body would assume beauty exceedingly like that of a cloud possessing the lustre of the flashes of lighting, शङ्कोरेकं प्रहृतमथवा धत्स्व शराग्रणी, पिच्छोपाग्रप्रततिरुचिरं येन शोभाऽधिका ते । क्रीडाहेतोविरचिततनोरिन्द्रनीलत्विषः स्याद् बर्हेणेष स्फुरितरुचिना गोपवेषस्य विष्णोः ।। ६० ।। अन्वयः---अथवा शूराग्रणीः पिच्छोपाग्रप्रततिरुचिरं मे शङ्कोः एक प्रहृतं धत्स्य, येन स्फुरितरुचिना बहेण क्रीडाहेतोः विरचिततनोः इन्द्रनीलत्विषः गोपवेषस्य विष्णोः इव ते अधिका शोभा स्यात् । शङ्कोरित्यादि । अथवा किंवा शूराग्रणीः वीरश्रेष्ठः । शूराणां अग्रणीः अग्रेसरः शूराग्रणीः । पिच्छोपाग्रप्रततिरुचिरं । रुचिं शोभा राति समन्तादत्ते इति रुचिरं शोभावहं । ' रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि ' इति विश्वलोचने । पिच्छस्य उपाग्रं अग्रोपान्तप्रदेशः पिच्छोपागं । पिच्छोपाग्रस्येव प्रततिः विरचना पिच्छोपाग्रप्रततिः । तया रुचिरं शोभावहं । मयूरबोपाग्रे या विरचना तया तुल्या बाणाग्रस्थोपान्ते या विरचना तया शोभावहमित्यर्थः । मे मम शङ्कोः बाणस्य । 'शकुः कीले शिवे सङ्ख्यायादोऽस्त्रभिदि किल्बिषे' इति विश्वलोचने । तच्चास्त्रं नाराच एव 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरोक्तेः । एकं प्रहृतं एकं प्रहारं आघातं । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । धत्व धेहि । सहस्वेत्यर्थः । येन प्रहृतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy