SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] प्रौढप्रणयपुलकः [त्वं ] स्वदो• मां निगूह । तत् चिरविरहज, उष्णं बाष्पं मुञ्चतः ते स्निग्धे मयकि जनिता स्नेहव्यक्तिः जनैः श्लाघनीया स्तात् । . पश्चात्तापादित्यादि । अहो भो भ्रातः पूर्वभवबन्धो पश्चात्तापात् अनुशयात् व्युपरति विरामं एहि गच्छ । 'ध्यपाये ध्रुवमपादानं' इति ध्यपायदर्शनात् 'काऽपादाने' इत्यपादाने का। पश्चात्तापदग्धहृदयत्वं विमुञ्चेति भावः । मयि अपि त्वज्जायागामिनि त्वदपकारके गर्हिते मयि अपि । अपि गर्दायामत्र । ' अपि सम्भावनाशाङ्काप्रश्नगहीसमुच्चये । अपि युक्तपदार्थेषु कामकारक्रियास्वपि' इति विश्वलोचने । प्रीतिं प्रणयं एहि प्राप्नुहि । त्वदपकारके मयकि कमठचरें यक्षे वैरबन्धं प्रविमुच्य प्रणयी भवेति तात्पर्यम् । प्रौढप्रणयपुलकः। प्रणयकृतः पुलकः रोमाञ्चितं प्रणयपुलकः । प्रौढः प्रकर्षेण वृद्धिंगतः प्रणयपुलकः यस्य सः । सञ्जातविपुलरोमाञ्चतनुरित्यर्थः । 'प्रादूहोढोढ्येषैष्ये' इति प्रादैबूढे परतः । त्वं स्वदोया स्वबाहुभ्यां मां ज्येष्ठभ्रातरं मां निगृह आश्लेषय। तत् तस्माद्धेतोः । आलिङ्गनाद्धेतोरित्यर्थः । चिरविरह । चिरं विरहः चिरविरहः । तस्माज्जायते इति चिरविरहजं । दीर्घकालविप्रलम्भसम्भूतमित्यर्थः । उष्णं कोणं बाष्पं अश्रु । 'बाष्पमूष्माश्रु' इत्यमरः । मुश्वतः नेत्रयोः पातयतः ते तव स्निग्धे स्नेहिनि । प्रेमपरे भ्रातरि मयीत्यर्थः । मयकि मयि । 'युष्मदस्मदोः सुपोऽभौसि' इत्यस्मदः सुबन्तस्य प्राक्टेरक् । जनिता उत्पादिता। कृतेत्यर्थः । स्नेहव्यक्तिः । स्नेहस्य प्रेम्णः व्यक्तिः प्रादुर्भावः। स्नेहाविर्भावः इत्यर्थः । जनैः लोकैः । श्लाघनीया। श्लाधितुं योग्या श्लाघनीया श्लाघारे । प्रशस्येत्यर्थः । स्तात् भवतु । भगवन्तं ध्यानात् प्रच्यावयितुं साम प्रयुञ्जानस्य कमठचरयक्षस्येयमुक्तिः । Oh brother ! abstain from repenting (i. c. give up repentance ) and have affection towards me even; you with the hair of your body bristling embrace me with your arms so that the manifestation of affection, towards me by you, shedding hot tears on account of the separation of long duration for me, the affectionate one, may highly be praised by the people. किं वा वैरीन्धनदहि मयि प्रौढमानस्त्वमेत नाभिप्रेयाः किमपरमहो नो विलम्बन तिष्ठ । त्वामयैवान्तकमुखबिलं प्रापयामि त्वकं मे मार्ग मत्तः शृणु कथयतस्त्वत्प्रयाणानुरूपं ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy