________________
[पार्धाभ्युदये Him to whom she was married for her husband, engrossed in counting the days.
जानासि त्वं प्रथमवयसि स्वीकृतां तां नवोढां
त्यक्त्वा यास्यस्यवनिपतिना साकमेकाकिनी यन् । प्रत्यावृत्तः कथमपि सती जीवितं धारयन्ती
मव्यापन्नामविहतगतिर्द्रक्ष्यास भ्रातृजायाम् ॥ ३४ ॥ अन्वयः -- जानासि त्वं प्रथमवयसि स्वीकृतां नवोढां एकाकिनी त्यक्त्वा अवनिपतिना साकं यन् यास्यसि अविहतगतिः प्रत्यावृत्तः कथमपि जीवितं धारयन्ती (अत एव) अव्यापन्नां सती भ्रातृजायां द्रक्ष्यसि ?
जानासीत्यादि। जानासि स्मरसि किम् ? प्रथमवयसि बाल्यावस्थायां । खगबाल्यादिनोर्वयः ' इत्यमरः । स्वीकृतां प्रागस्वा इदानीं स्वा कृता स्वीकृता । तां । विः। नवोढां नवं ऊढा नवोढा । तां । ऊह्यते स्म ऊढा । एकाकिनी असहायां । ' एकादाकिंचासहाये ' इत्यसहायार्थे आकिन् । त्यक्त्वा विहाय यन् अभियाता । 'यत् ' इति पाठं परित्यज्य ‘यन् ' इति परिवर्तितः पाठः स्वीकृतः, 'जानासि ' 'यास्यसि ' 'द्रक्ष्यसि' इति च पाठत्रयस्य सत्त्वात् , स्वर्थेऽयदि लृट् ' इति स्मरणार्थ लुटः प्रयोगे 'यत्' इत्यस्य पाठस्य शब्दशास्त्रविरोधित्वादत्र तस्यासम्भवात् । अवनिपतिना अरविन्दमहाराजेन साकं सह यन् गच्छन् 'सार्ध तु साकं सत्रा समं सह' इत्यमरः । यास्यसि अगच्छः। 'स्म्रर्थेऽयदि लट' इति स्मरणार्थ यद्वर्जिते वाचि भूतेऽनद्यतने वर्तमानाद्धोर्लट् । अविहतगतिः अप्रतिबद्धयशः फलः । अविहता अप्रतिबद्धा गतिः अभियानफलं यस्य सः । प्रत्यावृतः प्रत्यागतः कथमपि महता कष्टेन जीवितं प्राणान् धारयन्ती प्रियप्रत्यागमनाभिलाषेण जीवन्तीमित्यर्थः । अतः एव अध्यापन्नां अमृतां प्रज्वलितवियोगदुःखदाहां वा सती शोभनशीलवती भ्रातृजायां उपयमनसंस्काराभावेऽपि भ्रातृपत्नीभावं गतत्वात् जायेव जाया । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । भ्रातुः जायेव जाया भ्रातृजाया । तां । 'सती' इति विशेषणस्य वसुन्धरायाः बाल्ये परिणीताया अक्षतयोनित्वात् मरुभूतिपत्नीत्वेऽपि कमठचरेण यौनसम्बन्धस्य तस्याः सद्भावेऽपि तस्याः सतीत्वमनुपहतमेवेति कमठचरयक्षाभिप्रायः । अत्र 'ऋतां विद्यायोनिसम्बन्धात् ' इति ताया अनुप्प्राप्तः, भ्रातृशस्यन्दस्य ऋन्नन्तत्वादिति चेत्, न, भ्रात्रा पूर्वपदभूतेन जायायाः धय॑स्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org