SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ३८ [ पार्श्वाभ्युदये ८ , मन्यः इति पाठः भ्रान्तः । खश् स्वश्य इत्यात्मनः सुपि वाचिमन्यतेः खश् । खित्त्वाच्च 'अमेकाचोऽम्वत्' इत्यम् । यद्वा भाष्यकारवचनानुरोधेन स्त्रीमन्यः इति पाठेनाऽत्र भाव्यं स्त्रियः प्रत्वात् मुममोरभावाच्च । वा इव । अयं मरुभूतिचरः पार्श्वः । धिगस्तु । 'निर्भर्त्सनेऽपि निन्दायां धिक् ' इति विश्वलोचने । यः अयमिव पराधीनवृत्तिः यथाऽयं ध्याननिमग्रत्वात् ध्येयाधीनमनस्कारः तथा यः पराधीनवृत्तिः । परस्य अधीना वशा वृत्तिः वर्तनं यस्य सः । सः अन्यः जनः पार्श्वाद्भिन्नः पुरुषः भयपरवशः भयाधीनः आस्ते वर्तते । वर्तते किम् ? अपि तु न वर्तते इति भावः । काक्का योजनीयमेतत् । यद्वा सः अयं पार्श्वः भयपरवशः भयाधीनः स्त्रीम्मन्यः वा इव आस्ते वर्तते । धिगस्तु । यः अन्यः जनः पराधीनवृत्तिः अपि अयमिव न स्यात् । अनेन पराधीनवृत्तिनाऽपि भयपरवशेन न भाव्यं पराधीनवृत्तेरपि प्राकृतस्य जनस्य भयपरवशत्वादर्शनात् । अस्य तूष्णीम्भावः स्त्रीभावनिबन्धनः इति कमठाभिप्रायः । Even on hearing the speech delivered (by me) at length, this sage, observing silence only, does not fall out of meditation by an iota even. See his courageousness. This is like a womanish fellow. What a pity ! Is a man, other than hin, who is not under influence (of anything or overpowered with something) like him, overcome with fear? [ or – This one, overcome with fear, is like a womanish fellow. A man, other than him, though under influence completely, does not resemble this one. ] वित्तानिघ्नः स्मरपवशां वल्लभां काञ्चिदेकां ध्यानव्याजात् स्मरति रमणीं कामुको नूनमेषः । अज्ञातं वा स्मरति सुदती या मया दूषिताऽऽसीत् तां चाऽवश्यं दिवसगणना तत्पर रामेकपत्नीम् ॥ ३३ ॥ अन्वयः नूनं एषः वित्तानिघ्नः कामुकः ध्यानव्याजात् स्मरपरवशां काञ्चित् एकां वल्लभां रमणीं स्मरति । वा या सुदती मया दूषिता आसीत् तां दिवसगणनातत्रां एकपत्नी अज्ञातं अवश्यं स्मरति । वित्तानिघ्न इत्यादि । नूनं निश्चयेन । ' नूनं तर्फे तु विख्यातं नूनं स्यादर्थनिश्वये ' इति विश्वलोचने । एषः अयं पार्श्वाभिधानः मरुभूतिचरः वित्तानिध्नः । वित्तेषु विभवेषु अनिघ्नः अनधीनः वित्तानिघ्नः । वित्तं तु विभवे ज्ञातख्यातलब्धविचारिते' इति विश्वलोचने । ' घञर्थे कविधानं स्थापाव्यधिहनियुध्यर्थं कर्तव्यम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy