SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीपार्श्वनाथाय नमः॥ पार्थाभ्युदयम् । बालप्रबोधिन्या समेतम् । प्रथमः सर्गः। श्रीपार्श्व शुक्लयोगाग्निदग्धकर्मेन्धनं प्रभुं । दैत्योपसर्गजेतारं नामं नामं करोम्यहं ॥ श्रीपार्थाभ्युदयस्याऽस्य व्याख्यां बालप्रबोधिनीं। प्रतिभाभारभुनस्याऽमन्दानन्दविधायिनः॥ अथ भगवान् श्रीजिनसेनाचार्यः कविकुलतिलकायमानकालिदासविरचितमेषदूतसमाकृष्टचेताः 'आशीर्नमस्क्रियावस्तुनिर्देशो वाऽपि तन्मुखं' इति वचनमनुसृत्य वस्तुनिर्देशेन भगवत्कथां प्रस्तौति - श्रीमन्मूर्त्या मरकतमयस्तम्भलक्ष्मी वहन्त्या योगैकाग्यस्तिमिततरया तस्थिवांसं निदध्यौ । पार्थ दैत्यो नभसि विहरन् बद्धवरेण दग्धः । कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः ॥१॥ अन्वयः- कान्ताविरहगुरुणा बद्धवैरेण दग्धः स्वाधिकारात् प्रमत्तः नभसि विहरन् कश्चित् दैत्यः मरकतमयस्तम्भलक्ष्मी वहन्त्या योगैकाग्यस्तिमिततरया श्रीमन्मूर्त्या तस्थिवांसं पार्श्व निदध्यो। श्रीमन्मू]त्यादि। कान्ताविरहगुरुणा । कान्तेव कान्ता । तस्याः जातः विरहः वियोगः। मयूरव्यंसकादित्वात्समासः। विप्रलम्भ इत्यर्थः । तेन गुरुणा वृद्धि प्राप्तेनात एव दुर्भरणेत्यर्थः । 'गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवे। तस्य पूर्वभवे यस्या विरहो जातः सा तस्य धर्मपत्नी नासीत्, अपि तु भ्रातृजाया १ स्वाधिकारप्रमत्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy