SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ इन्द्रादिस्तुतिः ] जैनधर्मस्य वक्तारो, जैनशास्त्रस्य लेखकाः । तेषां सेवा शुभा कार्या, सर्वस्वाऽर्पणयोगतः ॥ जैनब्राह्मणलोकानां, सेवाभक्तिविशेषतः । कर्त्तव्या जैनधर्मस्य, प्रचाराय मनीषिभिः ॥ आत्मैव जैनधर्मोऽस्ति, द्रव्यतो भावतस्तथा । स्वाऽधिकारेण संसेव्यः, सर्वजैनैः स्वशक्तितः ॥ ३६ प्राणान्तेऽपि न सन्त्याज्यो, जैनधर्मो जनैः कदा। मिथ्यात्विनां कुतकैश्च, भ्रान्तिः कार्या न कहिंचित् ॥ ३७ जैनधर्मे वरं मृत्युजनानां स्वर्गमोक्षदः। इति विश्वासतो जैना, यान्ति सर्वोन्नति सदा ॥ जैनधर्म विना नाऽन्यो, धर्मो ग्राह्या कदा जनैः । जैनधर्मो न मोक्तव्यश्चक्रवादिलाभतः ॥ जैनधर्मो न मोक्तव्यो, लक्ष्मीसत्तापलोभनैः । जैनत्वं श्रद्धया रक्ष्यमापत्काले कलादिभिः ॥ आपदादिप्रसंगेषु, कलौ युगे विशेषतः । सर्वजातीयजैनानां, रक्षणार्थ स्वशक्तितः॥ ये जैनाः स्वात्मभोगादि, कुर्वन्ति ते वने रणे। गृहे मृत्वा दिवं यान्ति, देहादिमोहनाशकाः॥ स्वदेशभूमिरक्षार्थ, तथा धर्मस्य रक्षणे। सर्वजातीयजैनानां, रक्षार्थ व्यवहारतः ॥ देहादीनां ममत्वं ये, त्वजन्ति नैव वस्तुतः । ते जैना अधमा ज्ञेया, निर्जीवा धर्मनाशकाः ॥ स्वधर्मदेशरक्षातो, धर्मिजैनपरम्परा। . रक्ष्यतेऽतः प्रयत्नेन, कर्त्तव्यं देशरक्षणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy