SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २५६ [ इन्द्रादिस्तुतिः अधर्मिभिर्जनैः साकं, धर्म्ययुद्धविधायकाः। सर्ववर्णगता जैना, जैनधर्मप्रभावकाः ॥ अधर्मनाशकाचार्या, बहवो जैनभूमिपाः । वर्द्धयिष्याम्यहं जैनान्भूत्वा तेषां सहायकः ॥ ग्लानता जैनधर्मस्य, जैनानाच यदा तदा । सूरीन्प्रविश्य धर्मस्य, विधास्येऽहं महोदयम् ॥ वीरप्रभोः सदाज्ञायां, जैनानां स्वाऽर्पणं शुभम् । धर्म्ययुद्धेषु जैनानां, स्वाऽर्पणं धर्म एव सः॥ दुष्टधर्मिजनैः सार्द्धमखिला जैनधर्मिणः । सर्वोपायैः प्रयुद्धयन्ते, विजयन्ते च महलात् ॥ जैनधर्मस्य रक्षार्थमधर्मस्य निवृत्तये । युद्धमावश्यकं ज्ञेयमापत्तौ शक्तिवृद्धये ॥ सकलाऽऽसुरशक्तीनां, नाशं कर्तु सदाहताः। धर्म्ययुद्धं प्रकुर्वन्तो, लभन्ते स्वर्गसम्पदम् ॥ यादृशास्तादृशा जैना, महावीरानुयायिनः । मृत्वा स्वर्गादिकं यान्ति, शुद्धब्रह्माहताः स्वयम् ॥ वेषबाह्यक्रियाचारशास्त्रमोहनिवारकाः । महावीराऽऽहंता वेषाद्यैरपि मुक्तिगामिनः ॥ सर्वोत्कृष्टमहावीरः, शुद्धब्रह्मस्वरूपवान् । पार्श्व दूरेऽन्तरे बाह्ये, सर्वेष्वपि न सर्ववान् ॥ परमाहन्महावीरप्रभोः शरणमाहताः। कुरुध्वं मुक्तिलाभाय, सर्वदोषनिवृत्तये ॥ शंसन्ति जैनधर्म ये, कुर्वन्ति तस्य सिद्धताम् । पूर्णरागेण संसेव्यास्ते वित्तादिसहायतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy