SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ५६४] खवगसेढी [अन्यापादि श्रेणिग्रन्थरत्नमुद्रणाद्यर्थ कर्मशास्त्रप्रकाशनप्रवणायै प्रकाशकसंस्थायै दातुं निश्चितवन्तौ । ततः कालान्तरे हृद्गदेन कालं गतेऽपि वदान्ये रतनचन्दाख्ये तदीयेन स्वीयेन च द्रव्येण पञ्चशताचाम्लसिद्धचक्रतपआराधनादिनिमित्तकसाधर्मिकवात्सल्यशान्तिस्नात्रमहोत्सवपूर्वकोद्यापनादिकानि पुण्यकार्याणि व्यदधत खुबचन्दाभिधेन श्रेष्ठिना विंशत्यधिकविंशतिशततमवैक्रमाब्दे (२०२०) पिण्डवाडानगरे वर्षावासं कृतवति गच्छाधिपतौ । एप चैकसप्तत्यधिकद्विशतमूलगाथाकः (२७१)अनुमानतः सपादसप्तदशसहस्रश्लोकप्रमाणया सयन्त्रचित्रकस्वोपज्ञवृत्त्या विभूषितः क्षपकश्रेणिग्रन्थस्तयो रतनचन्द-खुबचन्दश्रेष्ठिपुङ्गवयोर्द्रव्यसाहाय्येन प्रकाश्यत इति कृतसुकृतौ तावन्ये च भव्यात्मानोऽस्याः पठनपाठनस्वाध्यायादिना क्रमेण शुक्लध्यानेन क्षपकश्रेणिमारुह्य निःश्रेयसमश्नुवतामिति । स्वोपज्ञवृत्तियुक्ता क्षपकश्रेणिरनुमानतः प्रमिता । श्लोकैः सपादसप्तदशसहस्र रस्त्यनुष्टुभिः ॥३२॥ (विपुलार्या) शिशुचेष्टाप्येषा मम न भवति हास्यास्पदं कृतिनां यस्माद्धि यथाशक्ति शुभे यतनीयमिति ते प्राहुः ॥३३॥ (उपगीतिः) यावद् घण्टायेतेऽर्केन्दू सुरगिरिगजे जयतु तावत् । इभगजयुगनयनमिते २४८८ वीराब्दे निर्मिता वृत्तिः ॥३४॥ (पथ्यार्या) स्वोपज्ञतपकरावृत्तिरचनेन त गुरारत्नेन । कुशलं यदापि तेन नपक श्रेणि जगत समारुह्यात् ॥३५॥ (गीतिः) इति समाप्ता प्रशस्तिः । तत्समाप्तौ च समाप्ता * श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सच्चारित्रचूडामणि कर्मशास्त्रनिष्णात--प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजयप्रेमसूरीश्वरान्तेवासि. स्याद्वादनयप्रमाणविशारद-पन्यासप्रवरश्रीमद्भानुविजयगणिवयंशिष्यप्रशिष्यश्रीमद्गच्छनायकप्राध्यापित-वाचंयममतल्लिका-जयघोषविजय-धर्मानन्दविजय-हेमचन्द्रविजय -गुणरत्नविजयसंगृहीतकर्मक्षपणापदार्थकाया मुनिपुङ्गवजितेन्द्रविजयचरणारविन्दचञ्चरीकायमाणा-ऽन्तिषदा मुनि-गुणरत्नविजयेन विरचितायाः क्षपकश्रेणेःस्वोपज्ञवृत्तिः। ܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy