________________
३७० ]
खवगसेढी
[ गाथा-१९६ अथ गणितविभागः। लोभप्रथमसंग्रहकिट्टिवेदनाद्धावरमसमये लोभद्वितीयसंग्रहकिट्टयवान्तरकिट्टयो लोभतृतीयसंग्रहकिट्टयवान्तरकिट्टयश्चैकगोपुच्छाकारेण तिष्ठन्ति स्म । लोभद्वितीयसंग्रहकिट्टिवेदनाद्धाप्रथमसमये लोभस्य तृतीयसंग्रहकिट्टितः सूक्ष्मकिट्टिषु, द्वितीयसंग्रहकिट्टितस्तु तृतीयसंग्रहकिट्टौ सूक्ष्मकिट्टिषु च प्रदेशाग्रं संक्रमयति । तेन स्वस्थानगोपुच्छाकारो विनश्यति । तथाऽनुसमया-ऽपवतैनाघातेन लोभद्वितीयसंग्रहकिट्टेस्तृतीयसंग्रहकिटेश्वोपरितनीरसंख्येयभागमात्रीरवान्तरकिट्टीविनाशयति । तेन परस्थानगोपुच्छाकारो विनश्यति । इदमुक्तं भवति-लोभतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमानान्तरकिट्टौ दलमेकचयेन हीनमासीत् । साम्प्रतं लोभतृतीयसंग्रहकिट्टरुपरितनीरसंख्येयभागप्रमाणा अवान्तरकिट्टीविनाशयति । तेनाऽसंख्येयभागमात्रीष्ववान्तरकिट्टिषु घातितासु लोभतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टितो लोमरतीयसंग्रहकिट्टिप्रथमा-ऽवान्तरकिट्टावेकाधिक-घाताऽवान्तरकिट्टिराशिप्रमाणचयीनं दलं जायते ।।
___ अथ घातदलतो लोभतृतीयसंग्रहकिदृयवान्तरकिट्टिषु लोभद्वितीयसंग्रहकिट्टयवान्तरकिट्टिषु च यथायोग्यं दलं दत्वा स्वस्थानगोपुच्छाकारो रचयितव्यः ।।
परस्थानगोपुच्छाकाररचनम्
लोभद्वितीयसंग्रहकिटेर्याताऽवान्तरकिट्टीनां घातदलं गृहीत्वा लोभद्वितीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ तृतीयसंग्रहकिट्टिघाताऽवान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति, ततः परं लोभद्वितीयसंग्रहकिट्टिद्वितीया-ऽऽद्यवान्तरकिट्टिषु तावतश्चयांस्तावत् प्रक्षिपति, यावलोभद्वितीयसंग्रहकिट्टियातिताऽवशेषचरमाऽवान्तरकिट्टिः । इत्थं घातदलतो दलिके प्रक्षिप्ते लोभतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टितः प्रभृति लोभद्वितीयसंग्रहकिटे_तितावशेषचरमाऽवान्तरकिट्टि यावत प्रदेशाग्र गोपुच्छाकारेण दृश्यते । इदं च सुखावबोधार्थमसत्कल्पनया दश्यते । कल्प्यन्तां लोभस्य द्वितीयसंग्रहकिट्टौ विंशतिरवान्तरकिट्टयस्तृतीयसंग्रहकिट्टौ च दशावान्तरकिट्टयस्तथा लोभतृतीयसंग्रहकिट्टिप्रथमावान्तरकिट्टयामेककोटी (१,००,००,००० ) प्रदेशाः, चयस्त्वेकलक्षप्रदेशमात्रः।
स्थापना लोभतृतीयसंग्रहकिट्टयवान्तरकिट्टिः प्रथमा द्वितीया तृतीया चरमा (दशमी)
१००००००० ९९००००० १८००००० ९१०००००। लोभद्वितीयसंग्रहकिट्टयवान्तरकिट्टिः प्रथमा द्वितीया तृतीया
चरमा (२० तमी) प्रदेशाः ९०००००० ८९००००० ८८००००० ७१००००० । अथ लोभतृतीयसंग्रहकिटेश्वतस्रो (४) लोभद्वितीयसंग्रहकिट्टेवाऽष्टाववान्तरकिट्टयो पात्यन्त इति कल्प्यताम् । ततश्चतसृष्ववान्तरकिट्टिषु घातितासु लोभतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टी पञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org