________________
३६६ ]
खवगसेढी
[ गाथा-१९५ एकोनविंशतिचतुर्विंशतिभागप्रमाणाभ्यो (१६) अवान्तरकिट्टिभ्यः स्वसंख्येयभागेनाऽधिका मायायां लोभतया सर्वथा परिणतायां लोमप्रथमसंग्रहकिट्टयवान्तरकिट्टयो जायन्ते स्म ।
ततोऽपि लोभद्वितीयसंग्रहकिट्टि वेदयतः प्रथमसमयकृतसूक्ष्मकिट्टयो विशेषाधिका भवन्ति ।
ननु लोभद्वितीयसंग्रहकिट्टिवेदनाद्धाप्रथमसमये सत्तागतदलस्याऽसंख्येयभागमानं दलिकं गृहीत्वा सूक्ष्माः किट्टीः करोतीति प्रागुक्तम् । अथ मायातृतीयसंग्रहकिट्टौ लोभप्रथमसंग्रहकिट्टितया परिणतायां मोहनीयसकलदलस्य द्वाविंशतिचतुर्विंशतिभागकल्पेन दलेन निर्तिताभ्यो लोभप्रथमसंग्रहकिट्टयवान्तरकिट्टिभश्चतुर्विंशतिचतुर्विंशतिभागप्रमाणमोहनीयसकलदलस्याऽसंख्येयभागकल्पेन दलेन विशेषाधिकाः सूक्ष्मकिट्टीः कथं निर्वतयेत् ? यतोऽसंख्येयभागप्रमाणदलेन लोभप्रथमसंग्रहकिट्टथवान्तरकिट्टीनामसंख्येयभागप्रमिता एव सूक्ष्मकिट्टिकरणप्रथमसमये सूक्ष्मकिट्टयो निवर्तयितव्या इति चेत् , उच्यते-सत्यम् , यदि प्रथमसमययेकैकसूक्ष्मकियां बादरसंग्रहकिट्टिगतेकैकावान्तरकिट्टिदृश्यमानदलतुल्यं दलं प्रक्षिपेत् , तीसंख्येयमागप्रमाणाः सूक्ष्मकिट्टीनिर्वतयेत् । किन्तु सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये बादरसंग्रहकिट्टिप्रतिवद्धैकैकावान्तरकिट्टौ यावद् दलं दृश्यमानं भवति, ततोऽसंख्येयगुणहीनं दलमेकैकस्यां सूक्ष्मकिट्टौप्रक्षिपति । कथमेतदवसीयत ? इति चेत् , उच्यतेद्विशततमगाथया सूक्ष्मकिट्टितो बादरप्रथमावान्तरकिट्टयामसंख्येयगुणं दलं दृश्यमानं वक्ष्यति । सूक्ष्मकिट्टौ च दृश्यमानस्य दलस्य दीयमानदलतोऽनतिरिक्तत्वाद् बादरावान्तरकिट्टिदृश्यमानदलतः सूक्ष्मकिट्टी दीयमानं दलमसंख्येयगुणहीनं सिध्यति । तेन सत्तागतदलस्याऽसंख्येयभागकल्पं दलं गृहीत्वैकैकवादरावान्तरकिट्टिदृश्यमानदलतोऽसंख्येयगुणहीनं दलमेकैकमूक्ष्मकिट्टयां तथा प्रक्षिपति, यथा मायायां लोभकिट्टितया परिणतायां लोभप्रथमसंग्रहकिट्टिसकलावान्तरकिट्टितः सूक्ष्मकिट्टयो विशेषाधिकाः समुत्पद्यन्ते । अत एव मायायाः सर्वथा लोभतया परिणतो सत्यां लोभप्रथमसंग्रहकिट्टयवान्तरकिट्टितः प्रथमसमयकृतसूक्ष्मकिट्टीनां विशेषाधिक न विरुध्यते । पश्यन्तु पाठकाः यन्त्रकम्-२५ ॥१९३-१९४॥
किट्टिकरणाद्धायां येन विधिना किट्टीनिवर्तयति, तेनैव विधिना सूक्ष्मकिट्टिकरणाद्धायां सूक्ष्मकिट्टीनिवर्तयति । एतदेव विस्तरतो विभणिपुराह
करइ सुहुमकिट्टीउ असंखगुणूणकमेण अणुसमयं । पडिसमयमसंखगुणकमेण दलं देइ सुहुमासु ॥ १९५॥
करोति सूक्ष्मकिट्टीरसंख्यगुणोनक्रमेणाऽनुसमयम् ।
प्रतिसमयमसंख्यगुणक्रमेण दलं ददाति सूक्ष्मासु ॥ १९५ ।। इति पदसंस्कारः ।
'करई' इत्यादि, तत्र 'अनुसमय समये समये 'असंख्यगुणोनक्रमेण' असंख्येयगुणहीनक्रमेण सूक्ष्मकिट्टीः 'करोति' निर्वर्तयति । अयं भावः-लोभद्वितीयसंग्रहकिट्टि वेदयन् सूक्ष्मकिट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org