________________
३४६ ]
खवगसेढी
[ गाथा-१७७ तदानीं मानद्वितीयसंग्रहकिट्टितया परिणतत्वात् । तथा मानद्वितीयसंग्रहकिट्टौ दलमितरसंग्रहकिट्टयपेक्षया सप्तदशगुणं जायते, इतरसंग्रहकिट्टीनां प्रत्येकं दलस्यैकचतुर्विशतिभागप्रमाणत्वात् । एवं मानद्वितीयसंग्रहकिट्टरवान्तरकिट्टयोऽपि ज्ञातव्याः॥१७७॥
मानप्रथमसंग्रहकिट्टिवेदनविधियन्त्रकम् (१) द्वितीयस्थितिस्थमानप्रथमसंग्रहकिट्टिप्रदेशाग्रमपकृष्य मानप्रथमसंग्रहकिट्टयाः प्रथमस्थितिं करोति
वेदयति च। (२) मानवेदनाद्धाप्रथमसमयात्प्रभृति मानप्रथमसंग्रहकिटेरधस्तनीरुपरितनीश्वाऽसंख्येयभागमिता ___अवान्तरकिट्टीवर्जयित्वा शेषा अवान्तरकिट्टीबध्नाति वेदयति च । (३) बध्यमानाऽवान्तरकिट्टित उदयमानाऽवान्तरकिट्टयो विशेषाधिका भवन्ति । (४) संज्वलनत्रिकस्य प्रथमसंग्रहकिट्टि बध्नाति । (५) प्रतिसमयमनुसमयाऽपवर्तनाघातेनोपरितनाऽसंख्येयभागप्रमाणावान्तरकिट्टीर्घातयति । (६) यथायोग्यं संग्रहकिट्टयन्तरेष्ववान्तरकिट्टयन्तरेषु चाऽ-पूर्वावान्तरकिट्टीनिवर्तयति । (७) नवसंग्रहकिट्टीनामवान्तरकिट्टयल्पबहुत्वं पूर्ववद् वक्तव्यम् , नवरं लोभतृतीसंग्रहकिट्टितो मान
प्रथमसंग्रहकिटेरवान्तरकिट्टयः संख्येयगुणा निगदितव्याः । (८) एवं नवसंग्रहकिट्टीनां प्रदेशाल्पबहुत्वमपि भणितव्यम् ।
__ मानप्रथमसंग्रहकिट्टिवेदनाद्धायां क्रोवस्य चरमप्रक्षेपेऽसंक्रयमाणे (९) संज्वलनक्रोधस्य जघन्यस्थितिसत्त्वम् । (१०) संज्वलनक्रोधस्य जघन्याऽनुभागसत्कर्म । (११) क्रोधोदयचरमसमये जघन्ययोगिना बद्धक्रोधस्य जघन्यप्रदेशसत्कर्म भवति ।
चरमप्रक्षेपं संक्रमयतो जीवस्य तु (१२) संज्वलनक्रोधस्य जघन्यस्थितिसंक्रमः । (१३) संज्वलनक्रोधस्य जघन्यानुभागसंक्रमः। (१४) कर्मप्रकृतिचूरिणकृदभिप्रायेण क्रोधोदयचरमसमये जघन्ययोगेन बद्धस्य नूतनक्रोधदलिकस्य
जघन्यप्रदेशसंक्रमो भवति । (१५) मानप्रथमसंग्रहकिट्टेः प्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । (१६) मानप्रथमसंग्रहकिट्टेः प्रथमस्थितौसमयाधिकावलिकाशेषायांमानस्य जघन्यस्थित्युदीरणाभवति । (१७) मानप्रथमसंग्रहकिट्टेः प्रथास्थितौ समयाधिकावलिकाशेषायां मानप्रथमसंग्रहकिद्देश्चरमोदयः ।
___मानप्रथमसंग्रहकिट्टेरुदयचरमसमये (१८) संज्वलनत्रिकस्य स्थितिबन्धोऽन्तमुहूर्तन्यूनपञ्चाशदिवसप्रमाणः । (१९) संज्वलनत्रिकस्य स्थितिसत्त्वमन्तमुहूर्तन्यूनचतुर्मासाधिकत्रिवर्षमात्रम् । (२०) ज्ञानावरणदर्शनावरणाऽन्तरायाणां संख्यातवर्षसहस्राणि स्थितिसत्कर्म । (२१) नामगोत्रवेदनीयानामसंख्येयवर्षसहस्राणि स्थितिसत्कर्म । (२२) समयाधिकोदयावलिकागतं समयोनावलिकाद्वयबद्धं च दलं मुक्त्वा शेषं प्रभूतं मानप्रथमसंग्रह
किट्टिदलं यथासंभवं मानद्वितीयसंग्रहकिट्टित्वेन परिणतम् । तेन मानद्वितीयसंग्रहकिट्टिदलं
मोहनीयसकलदलस्य सप्तदशचतुर्विशतिभागकल्पं (३४) जायते। | (२३) इतरसंग्रह किट्टयपेक्षया मानद्वितीयसंग्रहकिट्टेः प्रदेशा अवान्तरकिट्टयश्च सप्तदशगुणा जायन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org