________________
३४४ ]
खवगसेढी
[गाथा-१७७ किट्टीवर्जयित्वा शेषा अबध्यन्ताऽवेद्यन्त च । तत्रापि वन्धत उदयेऽवान्तरकिट्टयो विशेषाधिका भवन्ति स्म । संज्वलनानां प्रथमसंग्रहकिट्टिरेव बध्यते स्म, प्रतिसमयमनुसमयाऽपर्वतनाघातेन उपरितन्योऽवान्तरकिट्टयो घात्यन्ते स्म, यथायोग्यं संग्रहकिट्टयन्तरेष्ववान्तरकिट्टयन्तरेषु चाऽपूर्वावान्तरकिट्टयो निर्वय॑न्ते स्म, पूर्वापूर्वाऽवान्तरकिट्टिषु दलनिक्षेपः, संग्रहकिट्टिगतानामवान्तरकिट्टीनामल्पबहुत्वं संग्रहकिट्टिप्रदेशाग्राऽल्पबहुत्वञ्चेत्यादिविधिः प्ररूपितः, तथैव मानप्रथमसंग्रहकिट्टिवेदनाद्धायां प्ररूपयितव्यः । नवरं बन्धः संज्वलनत्रिकप्रथमसंग्रहकिटेर्वक्तव्यः, तथा नवसंग्रहकिट्टिगतानामवान्तरकिट्टीनामल्पबहुत्वं वक्तव्यम् , तत्रापि लोभतृतीयसंग्रहकिट्टितो मानप्रथममंग्रहकिट्टेरवान्तरकिट्टयः संख्यातगुणा भणितव्याः। एवं नवसंग्रहकिट्टीनां प्रदेशाग्रस्याऽप्यल्पबहुत्वं वक्तव्यम्, प्रदेशसंक्रमाऽल्पबहुत्वे संक्रमावलिकाया विशेषस्तु स्वयमेव भावनीयः। ___एवंविधानेन मानप्रथमसंग्रहकिट्टिप्रथमस्थितेरावलिकाद्वये शेषे पञ्चषष्टयधिकशततमसंग्रहगाथा प्रस्तुतापेक्षया व्याख्येया । तथाहि-मानप्रथमसंग्रहकिट्टिप्रथमस्थितौ द्वयावलिकाशेषायामागालो व्यवच्छिद्यते । ततः समयोनाऽऽवलिकायां गतायां मानप्रथमसंग्रहकिट्टिप्रथमस्थितेः समयाधिकाऽऽवलिकायां शेषायां मानस्य जघन्यस्थित्युदीरणा जायते । तदानींचैव मानप्रथमसंग्रहकिट्टेश्वरमोदयः प्रवर्तते । ॥१७६॥
___साम्प्रतं मानप्रथमसंग्रहकिट्टिसत्कोदयचरमसमये मोहनीयकर्मणः स्थितिबन्धं स्थितिसचं चाऽऽविश्चिकीर्षु राह
चरिमुदये संजलणतिगस्स उ पण्णासवासरा बंधो। अंतोमुहुत्तऊणा चत्ता मासा हवइ संतं ॥१७७॥ चरमोदये संज्वलनत्रिकस्य तु पश्चाशद्वासरा बन्धः ।
अन्तर्मुहूर्तोनाश्चत्वारिंशन्मासा भवति सत्त्वम् ॥१७७।। इति पदसंस्कारः । 'चरिमुदये' इत्यादि, 'चरमोदये' संज्वलनमानप्रथमसंग्रहकिटेरुदयचरमसमये मानप्रथमसंग्रहकिट्टिप्रथमस्थितो समयाधिकाऽऽवलिकाशेषायामित्यर्थः, 'संज्वलनत्रिकस्य' संज्वलनमान-माया-लोभरूपस्य तु 'बन्धः' स्थितिवन्धः 'पञ्चाशद्वासरा' पञ्चाशदिवसाः (५०) अन्तमुहूर्तोना भवति । सम्प्रति मोहनीयस्य स्थितिसत्त्वमभिधित्सुराह-'चत्ता'इत्यादि, चत्वारिंशन्मासाः,घण्टालालान्यायेन' अंतोमुहुत्तऊणा' इति पदमत्राऽपि योज्यम् । ततश्चाऽयमर्थः-अन्तम होनाश्चत्वारिंशन्मासाः (४०) 'सचं' संज्वलनत्रिकस्य स्थितिसचं 'भवति' जायते । व्याहारि च कषायप्राभतचूर्णी-“एदेण कमेण माणपढमकिहिं वेदयमाणस्स जा पढमहिदो, तिस्से पढमविदोए जाधे समयाहियावलियसेसा, ताधे तिण्हं संजलणाण ठिदिबंधो मासो वोसं च दिवसा अंतोमुहत्तणा । संतकम्मं तिणि वस्साणि चत्तारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org