________________
गणितरीत्या गोपुच्छाकाररचना] किट्टिवेदनाद्धाधिकारः
[ २५५ अथ परस्थानगोपुच्छाकाररचना निगद्यते
लोभस्य तृतीयसंग्रहकिट्टया उपरितनास्वसंख्येयभागमात्रीष्ववान्तरकिट्टिषुधातितासु तत्संग्रहकिट्टिचरमाऽवान्तरकिट्टिगतदलतस्तदनन्तरसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टयामेकाधिकघाताऽवान्तरकिट्टिराशिप्रमाणचगैर्हीनं दलं जायते । कथमेतदवसीयते ? इति चेत्, उच्यते-लोभतृतीयसंग्रहकिटेरुपरितनानामसंख्येयभागप्रमितानामवान्तरकिट्टीनां घातात् प्राग लोभततीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टितो द्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टौ दलमेकचयेन हीनं विद्यते स्म । अथोपरितनास्ववान्तरकिट्टिषु घातितास्विदानी या लोभतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिः, ततो द्वितीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ दलमेकाधिकघाताऽवान्तरकिट्टिराशिप्रमाणचीनं विद्यते, असंख्येयभागप्रमाणाऽवान्तरकिट्टीनां घातितत्वात् । तेन लोभद्वितीयसंग्रहकिट्टया घातदलतो घातावान्तरकिट्टिराशिप्रमाणचयान् लोभद्वितीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ प्रक्षिपति । प्रक्षिप्तेषु च घाताऽवान्तरकिट्टिराशिप्रमाणचयेषु लोभतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टयामेकचयेन हीनं दलं दृश्यते । ततो लोभद्वितीयसंग्रहकिट्टिद्वितीयाद्यवान्तरकिट्टिषु तृतीयसंग्रहकिट्टियाताऽवान्तरकिट्टिराशिप्रमाणांश्चयांस्तावत् प्रक्षिपति, यावल्लोभद्वितीयसंग्रहकिट्टियातिताऽवशेषाऽवान्तरकिट्टिषु चरमाऽवान्तरकिट्टिः । इत्थं लोभतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टत आरभ्य लोभद्वितीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टि यावद् दलं गोपुच्छाकारेण सम्पद्यते ।
अथ लोभद्वितीयसंग्रहकिट्टया घातिताऽवशेषासु या चरमाऽवान्तरकिट्टिः, ततो लोभप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टावेकाधिकलोभतृतीयसंग्रहकिट्टिद्वितीयसंग्रहकिट्टिघाताऽवान्तरकिट्टिराशिप्रमाणचयीनं दलं विद्यते । किं कारणम् ? इति चेत् ? उच्यते-द्वितीयसंग्रहकिटेपरितनानामवान्तरकिट्टीनांघातात् प्राग् लोभद्वितीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिसत्कप्रथमाऽवान्तरकिट्टयामेकचयेन हीनं दलं विद्यते स्म । सम्प्रति लोभद्वितीयसंग्रहकिटेपरितना असंख्येयभागप्रमिता अवान्तरकिट्टयो घात्यन्ते, तेन लोभद्वितीयसंग्रहकिटेर्घातितावशेषावान्तरकिट्टिषु या चरमाऽवान्तरकिट्टिः, तदपेक्षयकाधिकलोभद्वितीयसंग्रह किट्टिघाताऽवान्तरकिट्टिराशिप्रमाणचयीनं दलं लोभप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टौ जायते । तथा लोभद्वितीयसंग्रहकिट्टेलोभतृतीयसंग्रहकिट्टयाश्च परस्थानगोपुच्छाकाररचनायै तृतीयसंग्रहकिट्टिधातावान्तरकिट्टिराशिप्रमाणचयानां द्वितीयसंग्रहकिट्टथवान्तरकिट्टिषु प्रक्षिप्तत्वात् तावद्भिरपि चयीनं दलं लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौसम्पद्यते । इत्थं लोभद्वितीयसंग्रहकिटेर्घातितावशेषाऽवान्तरकिट्टिषु या चरमाऽवान्तरकिट्टिः, ततो लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टी दलमेकाधिकद्वितीयसंग्रहकिट्टितृतीयसंग्रहकिट्टिघाताऽवान्तरकिट्टिराशिप्रमाणाचयीनं जायते । तेन लोभप्रथमसंग्रहकिट्टियातदलतो दलं गृहीत्वा लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ लोभद्वितीयसंग्रहकिट्टितृतीयसंग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org