________________
असत्कल्पनया किट्टिषु दीयमानदलम् ] किट्टिकरणाद्धाधिकारः
[ १९७ सहस्राधिकैकादशलक्षाणि (११,१०,५३४) दलिकानि प्रक्षिप्तानि । किन्तु मानप्रथमसंग्रहकिट्टिसकलाऽवान्तरकिट्टयः षडुत्तरशतं (१०६) भवन्ति, क्रोधद्वितीयसंग्रहकिट्टिसकलाऽवान्तरकिट्टयस्तु विशेषाधिका अष्टोत्तरशतं (१०८) भवन्ति । तेन मानप्रथमसंग्रहकिट्टिसकलाऽवान्तरकिट्टिगतसर्वदलिकेभ्यो नवष्टियुक्तैकशताधिकद्वाविंशतिसहस्रोत्तरसप्तसप्ततिलक्षाधिकैकादशकोटिभ्यः (११,७७,२२,१६९) क्रोधद्वितीयसंग्रहकिट्टिसकलावान्तरकिट्टिगतानि दलानि द्वाचत्वारिंशदधिकचतुःशतोत्तरसप्तनवतिसहस्राधिकाष्टनवतिलक्षाधिकैकादशकोटयो (११,९८,९७,४४२) विशेषाधिकानि भवन्ति । ___तत ऊर्ध्वं क्रोधतृतीयसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ सप्ताधिकशतोत्तरदशसहस्राधिकैकादशलक्षाणि (११,१०,१०७) प्रक्षिपति । ततः परं क्रोधतृतीयसंग्रहकिट्टिद्वितीयाऽवान्तरकिट्टी पडधिकशतोत्तरदशसहस्राधिकान्येकादशलक्षाणि (११,१०,१०६) दलिकानि प्रक्षिपति । एवमनन्तरानन्तरेणैककचयेन हीनानि दलिकानि तावत् प्रक्षिपति, यावत् क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिः । तेन क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टयामेकविंशत्यधिकसप्तशतोत्तराष्टसहस्राधिकैकादशलक्षाणि (११,०८,७२१) दलिकानि प्रक्षिपति ।
___ इत्थं लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टितः प्रभृत्यनन्तरानन्तरेणाऽनन्ततमभागेन हीनं दीयमानं दलं तावद् भवति, यावत् क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिः।।
प्रथमसमये किट्टिषु दृश्यमानदलस्य दीयमानदलतोऽनतिरेकादनन्तरोपनिधया दृश्यमानदलमप्यनन्तरानन्तरेण विशेषहीनं भवति ।
परम्परोपनिधया-ऽपि दीयमानंदलमनन्ततमभागेनैव हीनं भवति। तथाहि-लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टौ चतुर्दशाधिकत्रिशतोत्तरैकादशसहस्राधिकान्येकादशलक्षाणि (११,११,३१४) दलानि दीयन्ते, क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टौ त्वेकविंशत्यधिकसप्तशतोत्तराष्टसहस्राधिकान्येकादशलक्षाणि (११,०८,७२१) दलानि दीयन्ते । इह च किञ्चिदधिकचतुश्शतानामनन्तत्वेन परिकल्पनाद् लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टितः क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टावनन्ततमभागेन हीनं दीयते । एवं दृश्यमानमपि दलं परम्परोपनिधयाऽनन्ततमभागेन हीनं भवति, दीयमानतो दृश्यमानदलस्या-ऽनतिरेकात् ॥१०॥
एतत्सर्व यन्त्रे सुबोधार्थे प्रदश्यते । इदन्त्ववसेयम्-समानाऽन्तराणां राशीनां योग इभ्यमाण आदिधनेन सहितमन्त्यधनं गच्छार्धेन गुण्यते, गुणने च कृते सर्वधनं लभ्यते । यदुक्त श्रोनिशीथभाष्ये-“अंतिमधणमादिजुयं गच्छद्धगुणं तु सव्वधनं।” इति । इह प्रथमावान्तरकिट्टी दीयमानदलान्यन्त्यधनम, चरमावान्तरकिट्टी दीयमानदलान्यादिधनम्, अवान्तरकिट्टिराशिश्च गच्छ इति । यथाऽसत्कल्पनया मानतृतीयसंग्रहकिट्टिप्रथमावान्तर्राकट्टौ दीयमानदलान्यष्टाविंशत्यधिकचतुश्शतोत्तरदशसहस्राधिकैकादशलक्षाणि (१११०४२८) अन्त्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org