________________
१९०]
खबगसेढी
[ गाथा--१०० प्रथमवर्गणागतदले सार्धद्विगुणहान्या गुणिते सत्तागतसकलदलं प्राप्यते, तत् सत्तागतदलमुत्कपणापकर्षणभागहारेण विभज्यैकभागमुत्किरति, तस्या-ऽसंख्येयभागप्रमाणं दलं किट्टिषु निक्षिपति । तेन बहुभागान् पृथक् स्थापयित्वैकभागं पूर्वोक्तविधिना विभज्यैकैकावान्तरकिट्टौ दलं निक्षिपति, तच्चाऽनन्तापूर्वस्पर्धकप्रथमवर्गणाप्रदेशप्रमाणं भवति । पृथक्स्थापितमुत्कीर्णदलबहुभागप्रमाणं दलं सार्धद्विगुणहान्या विभज्यैकभागमपूर्वस्पर्द्धकप्रथमवर्गणायां निक्षिपति । तच्च निक्षिप्यमाणं दलमपूर्वस्पर्द्धकपुरातनदलस्याऽसंख्येयभागप्रमाणं दलं भवति । तेन क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टौ निक्षिप्तदलतोऽनन्तगुणहीनं दीयमानं दलं प्रथमापूर्वस्पर्धकप्रथमवर्गणायां भवति । तथा च दृश्यमानमपि दलं क्रोधतृतीयसंग्रहकिट्टिचरमावान्तरकिट्टिगतदलतोऽनन्तगुणहीनमपूर्वस्पर्द्धकप्रथमवर्गणायां भवति, क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टावनन्ताऽपूर्वस्पर्द्धकप्रथमवर्गणाप्रदेशप्रमाणस्य दलस्य निक्षिप्तत्वात् । इत्थं सत्कर्मणि दृश्यमानं दलं गोपुच्छाकारद्वयेन तिष्ठति, किट्टिविषयकगोपुच्छाकारदलं स्पर्धकविषयकगोपुच्छाकारदलं चेति । ____ अन्ये तु किट्टिषु स्पर्धकेषु चैकगोपुच्छाकारेण दलं तिष्ठतीत्येवं मन्यमानाः क्रोधतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टी निक्षिप्यमाणप्रदेशतोऽपूर्वस्पर्धकप्रथमवर्गणायामसंख्येयगुणहीनं दलं प्रक्षिप्यते, अन्यथा किट्टिस्पर्धकयोरेकगोपुच्छाकारदलभङ्गः प्रसज्येतेति वदन्ति । एतेषां मतेन किट्टिकरणाद्धायाश्चरमसमयं परित्यज्य किट्टिकरणाद्धायाः शेषसमयेष्वेकसमयप्रवद्धदलसम्बन्ध्यनन्ततमभागप्रमाणमेव दलं फिट्टितया परिणतं स्यात् । कथम् ? इति चेत् , शृणुत-यद्युत्कीर्णदलस्या-ऽसंख्येयभागप्रमाणं दलं गृहीत्वा साधिकाऽपूर्वस्पर्धकप्रथमवर्गणागतदलप्रमाणामेकैकामवान्तरकिदि कुर्यात् , तमुवान्तरकिट्टय एकप्रदेशद्विगुणहानिस्थानानामसंख्येयभागमात्रा भवेयुः, उत्कीर्णदला-ऽसंख्येयभागस्यैकद्विगुणहानिगतप्रदेशाऽसंख्येयभागमात्रत्वात् । तच्च नेष्यते, सूत्र एकस्पर्धकगतवर्गणाऽनन्तभागमात्राणामवान्तरकिट्टीनां प्ररूपितत्वात् । तेनैकस्पर्धकगतवर्गणाऽनन्ततमभागप्रमाणानामवान्तरकिट्टीनां निवृत्तय उत्कीर्णदलाऽनन्ततमभागप्रमाणं दलं ग्रहीतव्यम् । गृहीत्वा च साधिकाऽपूर्वस्पर्धकप्रथमवर्गणागतदलप्रमाणामेकैकां किट्टि कुर्यात् । अनया रीत्या किट्टिनिवृत्तये गृहीतं दलमेकसमयप्रवद्धस्याऽनन्ततमभागमानं संभवति, असंख्येयसमयप्रबद्धप्रमाणोत्कीर्णदलाऽनन्ततमभागप्रमाणत्वात् । तेन चरमसमयं परित्यज्य शेषसमयेवनन्ततम
___*तथा चोक्त जयधवलाकारैरपि-"कोहचरमकिट्टीए णिसित्तपदेसग्गादो अपुवफयादिवग्गपाए रिणवदमारणपदेसग्गमवंतगुरणहीणं होदि । कि कारणं ? कोधचरिमकिट्टीए अरगंतानो अपुव्वफयादिवग्गणाओ रिणक्खिविय पुरणो अपुव्वफद्दयवग्गणाए तत्थ पुवावट्ठिददव्वस्सासंखेज्जदिभागमेत्तं चेव णिविखवमारणस्स तदवलद्धीए बाहाणवलंभादो। एत्थ दोण्ड पि दवारणमोवद्ररणं ठविय पयदत्थ विसये सिस्सारणं पडिबोहो कायन्वो। दिस्समारगदव्वं पि कोधचरमकिट्टीए बहुअं, अपुवफद्दयादिवग्गगाए अरणंतगुरगहीणमिदि दट्ठव्वं । तदो एत्थ दो गोपुच्छाप्रो जादाओ, किट्टीसु एया गोपुच्छा, पुव्वा. पुव्वफद्दएसु अण्णा गोपुच्छा त्ति ।" इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org