________________
XXXV
[ पदस्थध्यानम् ]
१
1910 ) पदान्यालम्ब्य पुण्यानि योगिभिर्यद्विधीयते । तत्पदस्थं मतं ध्यानं विचित्रनयपारगैः ॥ १ ॥ तद्यथा1911 ) ध्यायेदनादिसिद्धान्तप्रसिद्धां वर्णमातृकाम् । निःशेषशब्दविन्यास जन्मभूमिं जगन्नताम् ॥२ 1912 ) द्विगुणाष्टदलाम्भोजे नाभिमण्डलवर्तिनि । भ्रमन्तीं चिन्तयेद् ध्यानी प्रतिपत्रं स्वरावलीम् ॥ ३
(1910) पदान्यालम्ब्य - पुण्यानि पदानि आलम्ब्य योगिभिः यद् विधीयते, तत् पदस्थं ध्यानं मतं विचित्रनयपारगैः । इति सूत्रार्थः ||१|| तद्यथा दर्शयति ।
1911 ) ध्यायेदनादि - कीदृशीं वर्णमातृकां ध्यायेत् । अनादिसिद्धान्तप्रसिद्धाम् । सुगमम् । पुनः कीदृशीम् । निःशेषशब्दविन्यासजन्मभूमि सर्वस्थापनाजन्मभूमिकाम् । पुनः कीदृशीम् । जगन्नुताम् । इति सूत्रार्थः ||२|| अथ पुनराह ।
1912 ) द्विगुणाष्ट - स्वरावलीं चिन्तयेत् । कः । ध्यानी । प्रतिपत्रम् । कीदृशि । नाभिमण्डलवर्तनि । द्विगुणाष्टदलाम्भोजे षोडशदलकमले । भ्रमन्तीम् । इति सूत्रार्थः ॥ ३॥ अथ स्वरावलीमाह ।
योगीजन पवित्र पदोंका आश्रय लेकर जिस ध्यानको किया करते हैं उसे अनेक प्रकारके नयोंके रहस्यको जाननेवाले विद्वान् पदस्थ ध्यान मानते हैं ||१||
वह इस प्रकार से - योगीको समस्त शब्दरचनाकी कारणभूत और लोकके द्वारा नमस्कृत - जिसकी सब ही प्राणी वन्दना किया करते हैं- ऐसी अनादि परमागम में प्रसिद्ध वर्णमातृकाका - स्वरव्यञ्जनात्मक वर्णमालाका - ध्यान करना चाहिए ॥२॥
ध्याताको प्रथमतः नाभिमण्डल में स्थित सोलह पत्तोंवाले कमलके प्रत्येक पत्तेपर विचरण करनेवाली स्वरपंक्ति ( अ, आ इत्यादि १६ स्वर ) का विचार करना चाहिए ||३||
Jain Education International
१. PM तद्यथा । २ Y नादिसंसिद्धां प्र । ३ TXY मालिकां । ४ Y निःशेषपद । ५. T शब्दविज्ञानं, J विन्यासं । ६. All others except PM N Y नुताम् । ७ Y प्रतिपत्ति ।
For Private & Personal Use Only
www.jainelibrary.org