SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ५८४ [३३.९८ ज्ञानार्णवः 1791 ) मन्दारचम्पकाशोकमालतीवेणुरञ्जिताः । भ्रमन्ति यत्र भृङ्गाढ्या' गन्धवाहाः शनैः शनैः ॥९८ 1792 ) लीलावनविहारैश्च पुष्पावचयकौतुकैः । जलक्रीडादिविज्ञानैर्विलासास्तत्र योषिताम् ॥९९ 1793 ) वीणामादाय रत्यन्ते कलं गायन्ति योषितः । ध्वनन्ति मुरजा धीरं दिवि देवाङ्गनाहताः ॥१०० 1794 ) कोकिलाः कल्पवृक्षेषु चैत्यागारेषु योषितः । विबोधयन्ति देवेशांल्ललितैर्गीतनिःस्वनैः ॥१०१ 1791) मन्दार-यत्र गन्धवाहाः भ्रमन्ति शनैः शनैः । कीदृशाः। भृङगाद्याः । पुनः । मन्दारचम्पकाशोकमालतीरेणुरञ्जिताः कल्पवृक्षचम्पकाशोकमालतीपरागरञ्जिताः । इति सूत्रार्थः ॥९८॥ अथ तत्रत्ययोषितां स्वरूपमाह। 1792) लीलावन-तत्र देवलोके योषितां विलासाः वर्तन्ते। कीदृशैः कैः । जलक्रीडादिविज्ञानैः । पुनः कैः । लीलावनविहारैः । पुनः पुष्पावचयकोतुकैः । च पादपूरणे । इति सूत्रार्थः ॥९९।। पुनस्तदेवाह। 1793) वीगामादाय-रत्यन्ते भोगान्ते योषितः कलं गायन्ते। किं कृत्वा। वीणामादाय । ध्वनन्ति वाद्यन्ते । मुरजाः धीरं गम्भीरशब्दं यथा स्यात् । दिवि स्वर्गे। कीदृशाः । देवाङ्गनाहताः वादिताः। इति सूत्रार्थः ॥१००॥ अथ देवाङ्गनानां सौन्दर्यमाह । ___1794) कोकिला:-कल्पवृक्षेषु कोकिलाः देवेशान् इन्द्रान् विबोधयन्ति । चैत्यागारे उन्नतप्रासादेषु योषितः तान् विबोधयन्ति । कैः। ललितैः गीतनिस्वनैः गानस्वरूपस्वरैः । इति सूत्रार्थः ॥१०१॥ अथ स्वर्गस्य निरौपम्यमाह। वहाँ स्वर्गों में मन्दार, चम्पक, अशोक और मालती पुष्पोंके परागसे अनुरंजित तथा भ्रमरोंसे व्याप्त वायु धीरे-धीरे भ्रमण करती है ॥९८॥ वहाँ स्त्रियोंकी चेष्टाएँ क्रीडावनोंमें विचरण, फूलोंके चुननेका कुतूहल और जलक्रीड़ाके विज्ञानसे परिपूर्ण होती हैं ।।९९॥ स्वर्गमें स्त्रियाँ सुरतके अन्तमें वीणाको लेकर मनोहर गान करती हैं तथा वहाँ . देवांगनाओंसे ताड़ित होकर मृदंग मन्द शब्द करते हैं ॥१००।। कल्पवृक्षोंपर कोयलें और चैत्यालयोंमें स्त्रियाँ सुन्दर गीतोंकी ध्वनिसे इन्द्रोंको जागृत करती हैं ॥१०१॥ १. S Y R गन्धाढ्या, J भङ्गाद्या । २. M N देव for दिवि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy