________________
५३७
३०. आज्ञाविचयः 1620 ) अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् ।
सालम्बाच निरालम्ब तत्ववित्तत्त्वमञ्जसा ॥४ 1621 ) आज्ञापायविपाकानां क्रमशः संस्थितेस्तथा ।
विचयौ यः पृथक् तद्धि धर्मध्यानं चतुर्विधम् ॥५ 1622 ) वस्तुतत्त्वं स्वसिद्धान्तप्रसिद्धं यत्र चिन्तयेत् ।
सर्वज्ञाज्ञाभियोगेन तदाज्ञाविचयो मतः ॥६ 1623 ) अनन्तगुणपर्यायसंयुतं तत् त्रयात्मकम् ।
त्रिकालविषयं साक्षाजिनाज्ञासिद्धमामनेत् ॥७
___1620) अलक्ष्यम्-तत्त्वविदञ्जसा सुखेन तत्त्वं विचिन्तयेत् । शेषं सुगमम् । इति सूत्रार्थः ॥४॥ अथ धर्मध्यानभेदमाह।
1621) आज्ञापाय-हि निश्चितम् । तद्धर्मध्यानं चतुर्विधं तथाज्ञापायविपाकानां संस्थितः क्रमशो विचयो यः आज्ञाविचयादिकः । इति सूत्रार्थः ।।५।। अथाज्ञाविचयं दर्शयति ।
___1622) वस्तुतत्त्वं-स्वसिद्धान्तप्रसिद्ध वस्तुतत्त्वं यत्र विचिन्तयेत् । शेषं सुगमम् । इति सूत्रार्थः ॥६॥ अथ त्रयस्य स्वरूपमाह ।
1623) अनन्त-तत्त्रितयात्मकं धर्मत्रयं जिनाज्ञासिद्धम् आमनेत् । कीदृशम् । अनन्तगुणपर्याययुतं साक्षात् त्रिकालविषयम् । इति सूत्रार्थः ॥७॥ उक्तं च ।
तत्त्वके ज्ञाता योगीको लक्ष्यके सम्बन्धसे-जो इन्द्रियों के द्वारा देखा जा सकता है उसके आश्रयसे-अलक्ष्य (इन्द्रियोंके अगोचर परमात्मा) का, स्थूलके आश्रयसे सूक्ष्मका तथा आलम्बन युक्त अर्थके आश्रयसे निरालम्ब तत्त्वका चिन्तन करना चाहिए ॥४॥
आज्ञा, अपाय, विपाक और संस्थानका जो क्रमसे पृथक्-पृथक् विचार किया जाता है उसे धर्मध्यान कहते हैं और वह इस ध्येयके भेदसे क्रमसे चार प्रकारका है—आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय ।।५।। आज्ञाविचय
जिस ध्यानमें अपने सिद्धान्त (परमागम ) में प्रसिद्ध वस्तुस्वरूपका विचार सर्वज्ञदेवकी आज्ञाके अनुसार किया जाता है, वह आज्ञाविचय धर्मध्यान माना गया है ॥६॥
जिनभगवानकी आज्ञासे सिद्ध वह वस्तुस्वरूप प्रत्यक्षमें अनन्त गुण और पर्यायोंसे सहित; उत्पाद, व्यय और ध्रौव्यरूप तीन अवस्थाओंसे संयुक्त तथा तीनों कालोंको विषय करनेवाला है ।।७। कहा भी है
१. N S T R सिद्धान्तं । २. M N T संवृतं । ३. P विकाल । ४. ४ मानयेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org