________________
४९७
-१६ ]
२८. सवीर्यध्यानम् 1483 ) अनन्तवीर्यविज्ञानदृगानन्दात्मको ऽप्यहम् ।
किं न प्रोन्मूलयाम्यद्य प्रतिपक्षविषद्मम् ।।१३ 1484 ) अद्यासाद्य स्वसामर्थ्य प्रविश्यानन्दमन्दिरम् ।
न स्वरूपाच्च्यविष्ये ऽहं बाह्यार्थेषु' गतस्पृहः ।।१४ 1485 ) मयायैव विनिश्चेयं स्वस्वरूपं हि वस्तुतः ।
छित्त्वाप्यनादिसंभूतामविद्यावैरिवागुराम् ।।१५ 1486 ) इति प्रतिज्ञा प्रतिपद्य धीरः समस्तरागादिकलङ्कमुक्तः ।
__ आलम्बते धय॑मचञ्चलात्मा शुक्लं च यद्यस्ति बलं विशालम्॥१६॥प्रतिज्ञा। 1483) अनन्तवीर्य अहं प्रतिपक्षविषद्रुमं कर्मविषतरुम् अद्य प्रोन्मूलयामि। कीदृशो ऽहम् । अनन्तवीर्यविज्ञानदृगानन्दात्मको ऽपि दृक् सम्यग्दर्शनम् । इति सूत्रार्थः ॥१३॥ अथ स्वरूपापरित्यागमाह।
____1484) अद्यासाद्य-अहं स्वरूपादात्मस्वरूपान्न च्यविष्ये । अद्य स्वसामर्थ्यम् आसाद्य प्राप्य। आनन्दमन्दिरं प्रविश्य । कीदृशो ऽहम् । बाह्यार्थेषु इन्द्रियार्थेषु गतस्पृहः । इति सूत्रार्थः ।।१४।। अथ पुनरात्मानमेवाह ।
1485) मयाद्यैव-हि निश्चितम् । अद्यैव वस्तुतः निश्चयात् स्वस्वरूपं मया विनिश्चेयं निर्णेतव्यम् । अविद्यावैरिवागुरां मिथ्याज्ञानबन्धनं छित्त्वा । कीदृशाम् । अनादिसंभूताम् । इति सूत्रार्थः ॥१५॥ अथ पुनरात्मस्वरूपमाह।
____1486) इति प्रतिज्ञां-धीरः धर्ममालम्बते। किं कृत्वा । इति अमुना प्रकारेण प्रतिज्ञां प्रतिपद्य अङ्गीकृत्य । कीदृशः । अचञ्चलात्मा। च पुनः। शुक्लं बलं यद्यस्ति विशालं विस्तीर्णम् । कीदृशः । समस्तरागादिकलङ्कमुक्तः । इति सूत्रार्थः ।।१६।। अथात्मस्वरूपमाह । प्रतिज्ञा।
मैं अनन्तवीर्य, अनन्तज्ञान, अनन्तदर्शन और अनन्तसुख स्वरूप होकर भी क्या आज शत्रुभूत उस कर्मरूप विषवृक्षको निर्मूल नहीं कर सकता हूँ- आत्म-परका विवेक उदित हो जानेसे अब मैं उस कर्म-शत्रुको अवश्य ही नष्ट कर देता हूँ ॥१३॥
आज मैं अपनी स्वाभाविक शक्तिको प्राप्त करके और आनन्दके स्थानभूत उस आत्माके स्वरूपमें प्रविष्ट (लीन) होकर बाह्य विषयोंमें निःस्पृह होता हुआ आत्मस्वरूपसे च्युत नहीं होऊँगा ॥१४॥
मुझे अनादि कालसे उत्पन्न हुई अविद्यारूप शत्रुकी फाँसको काटकर आज ही यथार्थमें आत्मस्वरूपका निश्चय करना है ॥१५॥
__ इस प्रकारसे प्रतिज्ञा करके धैर्यशाली ध्याता समस्त रागादिरूप कलंकसे रहित होता हुआ स्थिरतास्वरूपसे धर्मध्यानका आश्रय लेता है तथा यदि विपुलसामर्थ्य हुआ तो शुक्लध्यानका भी आश्रय लेता है।।१६।। १. M N बाल्यार्थेषु । २. Q वस्तुनः । ३. P Q M L F प्रतिज्ञा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org