________________
४४०
ज्ञानार्णवः
1278 ) जगत्त्रयचमत्कारिचरणाधिष्ठितात्मनाम् ।
तद्गुणेषु प्रमोदो' यः सद्भिः सा मुदिता मता ।। १२ ।। अथोपेक्षा
1279 ) क्रोधैविद्धेषु सत्वेषु निस्त्रिशक्र रकर्मसु ।
मधुमांससुरान्यस्त्रीलुब्धेष्वत्यन्त पापिषु ॥१३ 1280 ) देवागमयतिव्रात निन्दकेष्वात्मशंसिषु ।
नास्तिकेषु च माध्यस्थ्यं यत्सोपेक्षा प्रकीर्तिता ॥१४ 1281 ) एता मुनिजनानन्दसुधास्यन्दैकचन्द्रिकाः । ध्वस्त रागाद्युरुक्लेशा लोकाग्रपथदीपिकाः || १५
[ २५.१२
1278 ) जगत्त्रय — सद्भिः सत्पुरुषः सा मुदिता मता कथिता । सा का । जगत्त्रयचमत्कारिचरणाधिष्ठितात्मनां त्रिभुवनाश्चर्यकारिचारित्राधिष्ठितात्मनां गुणेषु यः प्रमोदो हर्षः स्यात् । इति सूत्रार्थः ||१२|| अथोपेक्षा ।
1279 ) क्रोधविद्धेषु - * क्रोधाविद्धेषु सत्त्वेषु प्राणिषु उपेक्षा कर्तव्या । निस्त्रिंशकर्म सु निर्दयक्रूरकर्मसु । मधुमांससु रान्यस्त्रीलुब्धेषु मद्यमांससुराविशेषपरस्त्रीलम्पटेषु । अत्यन्तपापिषु । इति सूत्रार्थः || १३ | अथोपेक्षामाह ।
1280 ) देवागम-सा उपेक्षा प्रकीर्तिता कथिता । यत् नास्तिकेषु माध्यस्थम् । कीदृशेषु । देवागमयतिव्रातनिन्दकेषु देवशास्त्रयतिवर्गनिन्दनीयेषु । पुनः कीदृशेषु । आत्मशंसिषु । इति सूत्रार्थः ||१४|| अथैतासां फलमाह ।
1281 ) एता मुनि - एता मैत्र्यादयो लोकाग्रपथदीपिका मोक्षपथदीपिकाः मुनिजनानन्दसुधास्यन्दैकचन्द्रिका मुनिवृन्दानन्दामृतस्रावैकचन्द्रज्योत्स्नाः । पुनः कीदृश्यः । ध्वस्त रागाद्युरुक्लेशा हतरागादिगरिष्ठक्लेशाः । इति सूत्रार्थः || १५ || पुनरेतासां फलमाह ।
Jain Education International
तत्त्वके अभ्याससे शोभायमान हैं, तथा जिनकी आत्मा तीनों लोकोंको आश्चर्यान्वित करनेवाले चारित्रसे अधिष्ठित है; उन महापुरुषोंके गुणोंमें जो हर्ष होता है वह सत्पुरुषोंके द्वारा मुदिता भावना मानी गयी है ॥११- १२ ॥
उपेक्षा भावना – जो प्राणी क्रोधसे संयुक्त, निर्दयतापूर्वक दुष्ट कर्म करनेवाले, मधु, मांस, मद्य एवं परस्त्रीमें आसक्त; अतिशय पापी, देव, शास्त्र व मुनिसंघ के निन्दक, अपनी प्रशंसा करनेवाले तथा नास्तिक ( आत्मा व परलोकके न माननेवाले ) हैं उनके विषय में क्षोभको प्राप्त न होकर जो मध्यस्थताका भाव रखा जाता है वह उपेक्षा भावना कहलाती है ।१३-१४||
उपर्युक्त मैत्री आदि चार भावनाएँ मुनिजनके आनन्दरूप अमृतके बहानेके लिए अनुपम चाँदनीके समान, रागादिरूप महाक्लेशको नष्ट करनेवाली और लोकशिखर (सिद्धक्षेत्र) के मार्गको - रत्नत्रयको — प्रकट करनेके लिए दीपकके समान हैं ||१५||
१. MLK यो गुणेषु प्रमोदः स्यात्, NT यो गुणेषु प्रमोदो यः, X स्याद्गुणेषु प्रमोदो यः । २. PM अथोपेक्षा । ३. M क्रोधाविद्धेषु, X क्रोधाविष्टेषु । ४. N हि for च ।
For Private & Personal Use Only
www.jainelibrary.org